________________
श्रीशुभतिलकोपाध्यायकृतम् . अथवा सामान्येन सर्वप्रवादिसंवादिस्वरूपस्य परमात्मनः प्रणिधानमिदम्-ॐ भूर्भुः वाखस्तदित्यादि । ओमिति प्राग्वत् । भूर्भुवःस्वस्तदिति हे सर्वव्यापिन् ! । वेदेऽप्युतम्-"पुरुष एवेदं" इत्यादि । सवितुर्वरेण्यमित्यत्रानुनासिकश्चोक्तनीत्या । भर्गोदेवेति भर्गश्च उश्च उश्च तेषामपि देव आराध्यः । न च वाच्यं तेषामाराध्यो नास्तीति, तेषामपि ५ सन्ध्यावन्दनादिश्रवणात् । तथा
"पञ्चाशैकोनके कोष्ठे, अकारादिप्रविस्तरे । तत्र मध्यस्थितं देवि!, शिवं परमकारणम् ॥ अष्टवर्गान्तगं बीजं, कवर्गस्य च पूर्वकम् । वह्निनोपरि संयुक्त, गगनेन विभूपितम् ॥ एतद्देवि ! परं तत्त्वं, योऽभिजानाति तत्त्वतः।
संसारवन्धनं छित्त्वा, स याति परमां गतिम् ॥" इत्यादिवचनप्रामाण्यात् । स्य-अन्तय । कमित्याह-'धीम्' धीः-चित्तं तत्र य इ:कामस्तं, मनःकामे हि ध्वंसिते ध्वस्तावेव वाकायकामौ, तथा अहि धियः-क्रूरताद्याः ताः अप्यपनय, चं विनाऽपि समुच्चयस्य गम्यमानत्वात्
"अहरहर नयमानो, गामश्वं पुरुष पशुम् ।
वैवस्वतो न तृप्यति, सुराया इव दुर्मदी ॥" इत्यादाविव तथासत्त्वम् । तथा योनि सचित्तादिकां चतुरशीतिलक्षसङ्ख्यावच्छिन्नां वा करोतीति योनयति इति ण्यन्तात् क्विपि णिलुकि च योन्-संसारः तस्मात् योनः-संसार
महोदधेः प्रचोदय-अपनय, अस्मानिति शेषः । कामक्रोधादिभावशत्रुध्वंसनपूर्वमस्मान्मुक्ति २० प्रापयेत्यभिप्रायः । प्रचोदयेत्यनेनैव कामादिविध्वंसनमर्थापन्नं मुक्ततायास्तन्नान्तरीयकत्वात् नार्थः 'स्यधीमहि धियः' इत्यनेन चेत्, न, मुत्यर्थिना पूर्व कामादिपराजयो विधेय इत्युपायोपेयभावज्ञापनार्थत्वाददोपः । तथा अत् इति सौगतपक्षवत् साङ्ख्यपक्षवद् वेति सर्वदर्शनाभिप्रायतो मन्त्रव्याख्या ॥ ८ ॥
अथासौ गायत्री सर्ववीजाक्षरनिधिरिति द्विजप्रवादमाश्रित्य कतिचिन्मन्त्राक्षर२५ बीजानि प्रदर्श्यन्ते, तद्यथा-ओमिति वीजाक्षरमक्षपादपक्षदर्शितप्रभावदिङमात्रं च भर्गोदे
इत्यनेन ध्यानकार्यापेक्षं वर्णसूचनम् । तथाहि-भर्ग इतीश्वरस्तेन च श्वेतवर्णो लक्ष्यते
. 'भथ सर्वदर्शनसंवादिस्वरूपस्य परमेश्वरस्य' इति ख-पाठः। २ 'परमेश्वरस्य' इति ग-पाठः। ३ 'पूर्ववत्' इति स्व-पाठः।' ऋग्वेदे पुरुषसूक्ते। ५ 'पुरुष एवेद, सर्व यद्भूतं गा भव्यम् । उतामृतत्वस्येशानी यदनातिरोहति' इति । ६ 'मिति पूर्ववत् भर्गश्च०' इति ख-पाठः। . 'गच्छेत्' इति ग-पाठः। ८ 'विनाशय' इति व-पाठः। ९ 'धी:-बुद्धिः' इति ख-पाठः। १. 'ताचाः ता भपि विनाशय' इति स्व-पाठः।
" 'पायोविधेयः इत्युपायोपपज्ञापनार्थवाददोषः' इति ख-पाठः। १२ 'दर्शनेषु मना' इति ख-पाठः। १३ कानिचिन्मनाक्षराणि दृश्यन्ते' इति ख-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org