________________
गायत्रीविवरणम्
७९
किं स्वच्छन्देनास्मन्मतयः पावकतर्पणादौ प्रवर्तन्ताम् ? नेत्याह-प्रचोदयादिति चोदनं चोदया, चोदनेत्यर्थः । 'णिवेच्यासश्रन्थघट्टवन्देरन:' ( सिद्ध० ५ -३ - १११ ) इत्यनेन अनप्राप्तावपि शलिप्रत्ययादिति बाहुलकादः, णेर्लुक्प्रसङ्ग इति चेन्न । णिलुकोऽनित्यत्वात् । तथा च धातुपारायणं-भीप्यादिभ्योऽनापवादे (?) अप्रत्ययेऽपि णेलुकि भीषादीनां सिद्धवद् विधानाण्णिलुकोऽनित्यत्वज्ञापनार्थ, तेन “चिन्तया सुप्रकम्पया ” इत्यादि सिद्धम् । इति । ५ चोदना च क्रियां प्रति प्रवर्तकं वचनं यथा - " अग्निहोत्रं जुहुयात् स्वर्गकामः " ( तैत्तिरीयसंहितायाम् ) इति । व्याचकार च षड्दर्शनसमुच्चयकारः“चो (नो ? ) दनालक्षणो धर्म-चोदना तु क्रियां प्रति । प्रवर्तकं वचः प्राहुः स्वः कामोऽग्निं यथा यजेत् ॥”
इति ( षड्दर्शनसमुचये अ० ६, श्लो० ४ ) । प्रकर्षेण चोदयः प्रचोदयोऽस्मिन्नस्तीति । १. 'अत्रादिभ्यः' (सिद्ध०७-२-४६ ) इति बहुवचनस्याकृतिगणज्ञापनार्थत्वात् अप्रत्यये प्रचोदयो- 'वेदस्तस्मात्, वेदोपदेशमाश्रित्येत्यर्थः । 'गम्ययपः कर्माधारे' (सिद्ध० २ - २ - ७४ ) इति पञ्चमी । किंविशिष्टाद् वेदात् ? 'सवितुः व' वशब्दस्य " कादम्वखण्डदलितानि व पङ्कजानि ” इत्यादिषूपमानार्थस्य रूढत्वादादित्यादिवत्, समस्तार्थसार्थप्रकाशकतया भास्करतुल्यादित्यर्थः । तस्माद् वेदादस्मन्मतयः अन्याराधनादौ प्रवर्तन्ताम् । अत्र १५ यत्तदोर्नित्याभिसम्बन्धाद् यतो विद्यते, किं तत् ? 'ॐ' ओमित्यक्षरं, छन्दसामादिभूतत्वात् तस्य । किंविशिष्टम् ? ‘भूर्भुवः स्वस्तत्' भुवनत्रयव्यापि । न हि किञ्चिदभिधेयसमाविष्टं त्रस्तु गुरुसम्प्रदाययुक्त्याऽन्विष्यमाणं अत्रान्तरे शब्दपर्यायैर्नावाप्यते, सर्वैरपि प्रवादिभिरविगा - नेनास्य सकलभुवनत्रयकमलाधिगमबीजत योपवर्णितत्वादिति परिभावनीयमेतत् । अत एव चास्यासाधारणं विशेषमाह - आण्यमिति । आण्यते-उच्चार्यते स्मर्यत इति आण्यं - प्रणि- २० धेयम् । कस्येत्याह- 'वस्य' उः - ब्रह्मा, उः - शङ्करश्च, अः - कृष्णः । सन्धिवशात् वं- पुरुषत्रयं तस्यापि ध्येयमिति भावः । वस्येति कर्तरि षष्ठी 'कृत्यस्य वा' (सिद्ध० २-२ -८८ ) इति लक्षणात् । यद्वा वेदात् । किंविशिष्टात् ? सवितुः - उत्पादयितुः प्रतिपादयितुरितियावत् । किं तदिति व्याप्यमाह - ओमित्यादि । शेषं पूर्ववत् । नवरं वशब्दो वाक्यालङ्कारे ज्ञेयः । रे आण्यमित्याकारलोपः प्राक्तनवाचोयुक्तेरेवावसेयः । तदयं समुदायार्थ:- यस्मिन् वेदे २५ आदावखिलजगत्रयव्यापी देवत्रयेणापि प्रणिधेयः प्रणव उद्गीयते यश्च समस्तार्थप्रकाशनैकभास्करस्तस्य वेदस्योपदेशमाश्रित्य कामसम्पत्कारणे विद्वज्जनाभ्यर्चनीये चान्याराधने आस्माकीना वुद्धयः प्रवर्तनशीलाः सन्तु । इति भट्टदर्शनाभिप्रायेण व्याख्या ॥ ७ ॥
१ 'देवस्तस्मात् देवापदेश:' इति ख- पाठः । २ 'वेति उपमार्थं सवितुः सर्वार्थप्रकाशकत्वेन सूर्यसमानात् तस्माद्' इति ख- पाठः । ३ 'लोकत्रयव्यापि । तर्हि किञ्चि०' इति ख- पाठः । ४ 'मत्रो कारशब्दस्य पर्यायो नैवाप्यते सर्वैरपि प्रवादिभिरप्यविगाने नास्य०' इति ख- पाठः । ५ 'वान्तरमाह' इति स्व-पाठः ६ 'पुरुषोत्तमः ' इति ख- पाठः । ७ 'वः तस्य वस्य तेनापि ध्येयमित्यर्थः रे भाण्यमित्या' इति ख- पाठः । ८ 'प्रवर्तन्तामिति भट्टदर्शनेन मनग्याख्या' इति ख- पाठः ।
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org