________________
७८
श्रीशुभतिलकोपाध्यायकृतम्
इत्यत्र वहु वक्तव्यं, तत् तु ग्रन्थगौरवभयान्नोच्यते, गमनिकामात्रफलत्वात् प्रयासस्य । 'हिं' स्फुटम् । हे यो ! - पदैकदेशे पदसमुदायोपचारात् हे योगिन् ! “बुद्धे तु भगवान् योगी” इत्यभिधानचिन्तामणिशेष ( श्लो० ७९ ) वचनात् योगी - वुद्धस्तस्यामन्त्रणम् । अस्माकं धियो - बुद्धीरभिप्रेततत्त्वज्ञानं प्रति चोदय- व्यापारय । 'अत्' इति अतति - सातत्येन गच्छ५ तीत्यत्, गत्यर्थानां ज्ञानार्थत्वात् सर्वज्ञ इत्यर्थः । इति वौद्धाभिप्रायः ॥ ६ ॥
१. अतस्ते वेदवाक्यप्रामाण्यात् वैश्वानरं गुरुतया पर्युपासते इति तत्प्रणिधानार्थं वेदस्तुतिगर्भ इदं पठन्ति —– ॐ भूर्भुवः स्वरित्यादि । तत्र सुखावबोधाय पदविभागः क्रियते - ॐ भूर्भुवः स्वस्तत् । सवितुः । व । रे । आण्यं । भर्गोदे । वस्य । धीमहि । धियः । अयः । नः । प्रचोदयात् ।
जैमिनीयाः पुनः सर्वज्ञं देवतात्वेन न प्रतिपन्नाः, किन्तु नित्येभ्यो वेदवाक्येभ्य एव तेषां तत्त्वनिश्चयः, साक्षादतीन्द्रियार्थदर्शिनः कस्यचिदपि तन्मते अभावात् । यदुक्तम्"अतीन्द्रियाणामर्थानां साक्षाद् द्रष्टा न विद्यते ।
वचनेन हि नित्येन यः पश्यति स पश्यति । ”
अधुना अक्षरार्थः कथ्यते - धियो- बुद्धयो नः - अस्माकं भवन्त्विति वाक्यशेषः । १५ किम्भूता भवन्तु ? 'अयः' अयन्ति - गच्छन्तीत्ययो - गामिन्यः । क्वेत्याह-'रे' अग्नौ | अग्निशब्देनात्र तदाराधनादि ग्राह्यम् । अतश्चान्याराधनादावस्मन्मतयः प्रवर्तनशीला भवन्त्वित्ययमर्थः सम्पन्नः । किंविशिष्टे रे ? 'भर्गोदे' अवतीत्यूः - दाहकः । अवतेः श्रीसिद्ध हैमधातुपाठे दहनार्थतया पठितत्वात् भर्गः - ईश्वर ऊः - दाहको यस्यासौ भर्गोः - कामः, यंत् कालिदासः (कुमारसम्भवे स० ३, श्लो० ७२ ) -
,
"क्रोधं प्रभो ! संहर संहरेति, यावद् गिरः खे मरुतां चरन्ति । तावत् स वह्निर्भवनेत्रजन्मा, भस्मावशेषं मदनं चकार ॥"
१०
२५
तं ददात्याराधकेभ्य इति भर्गोदस्तस्मिन् । अग्नितर्पिणां शास्त्रे सम्पत्सम्प्रात्यभिधानात् सम्पदां च कामभोगहेतुत्वात् । तथाच शिवधर्मोत्तरसूत्रम्
" पूजया विपुलं राज्य - मग्निकार्येण सम्पदः ।
तपः पापविशुद्धार्थ, ज्ञानं ध्यानं च मुक्तिदम्" ॥
इति । पुनः किंविशिष्टे ? ' धीमहि धियः - पण्डिताः महाः - पूजका यस्य स तथा तत्र ।
१ 'प्रायेण मन्त्रव्याख्या' इति ख- पाठः । २ श्रीमल्लिषेणसूरिकृतायां स्याद्वादमञ्जय ( पृ० ८७) साक्षिरूपेण उल्लिखिते पद्ये पूर्वार्धमिदम् उत्तरार्धं तु यथा - नित्येभ्यो वेदवाक्येभ्यो यथार्थस्व विनिश्वयः; इदमुराधे समस्ति श्रीहारिभद्रीये षड्दर्शनसमुच्चये (अ०६, लो० २ ), परन्तु तत्र पूर्वार्धमेवम् - " तस्मादतीन्द्रियार्थानां साक्षाद् द्रष्टुरभावतः " इति । ३ पथपूर्वकोऽयं पाठः क-प्रतौ नास्ति । ४ 'किंभूते' इति - पाठः । ५ 'तस्मिन्' इति ख- पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org