________________
गायत्रीविवरणम् सिद्धं योनःप्रचोदेति । न चैवंप्रकाराः प्रयोगान लभ्यन्त इति वाच्यम् । “बन्धुप्रियां वन्धुजनोऽऽजुहाव" इति (कुमार० स० १, श्लो० २६) महाकवि(कालिदास)प्रयोगदर्शनात् ।। अथवा स्वस्तदिति विशेषणमेव, प्रचोदेति पुनः क्रियापदम् । अन इति कर्मपदं, अन्तरा. त्मसारथिना प्रवर्तनीयत्वात् अन इवानः-शरीरं तत् प्रचोद । 'चुदण् सञ्चोदने' (सिद्ध धा०) इत्यस्य चुरादेर्णिचो अनित्यत्वात् तदभावे हौ रूपं, सञ्चोदनं च नोदनमिति, धातु- ५ पारायणकृता तथैव व्याख्यानात् , ततश्च प्रचोद-प्रकर्षेण नुद-स्फेटय । नह्यमुग्धकायक' लिमनुत्सृज्य क्वचिदपि परमसुखलाभः । उक्तं हि वेदे-“अशरीरं वा व सन्तं प्रियाप्रिये न स्पृशतः। न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति"। इति वैष्णवाभिप्रायः ॥५॥ (ॐ भूर्भुवः खस्तत्! सवितुर्वरेण्यं भर् गोदेवस्य धीम! हि धियोयो नः प्रचोदयाऽत्)
___ यदि वा सौगताः स्वं देवं-वुद्धं भट्टारकं प्रणिदधाना एवमाहुः-ॐ भूर्भुवःस्वरि.१० त्यादि । ओमिति प्राग्वत् । हे भूः!-आधार ! भुवो-भव्यलोकस्य स्वः-परलोकं तनोतिविस्तारयति प्रज्ञापयतीतियावत् स्वस्तत् । आत्मनाऽस्तित्वेऽपि परलोकाभ्युपगमात् "आत्मा नास्ति पुनर्भवोऽस्ति" इति वचनात् । “आत्मानास्तित्वं च-पञ्चेमानि भिक्षवः! सेंज्ञामात्रं प्रतिज्ञामात्रं संवृतिमात्रं व्यवहारमात्रम् । कतमानि पञ्च ?, अतीताद्धा अनागताद्धा प्रतिसंख्यानिरोधः आकाशं पुद्गलाः" इति वुद्धोक्तिप्रामाण्यात् , अत्र पुद्गल इत्यात्मा, १५ सवितुः-तैपनस्य वरेण्य !-प्रधान !, रविवान्धवत्वात् सप्तमस्य बुद्धस्य शाक्यसिंहाभिधानस्य । भर् गोदेवस्येति । विभीति भर्-पोषकः । कस्येत्याह-'गोदेवस्य' गोभिर्भूता. र्थगर्भाभिर्वाग्भिः दीव्यति-स्तौतीति गोदेवस्तस्य । यदि नामासंवेदयताऽपि डिम्भेन भग. वते वुद्धाय कल्पितः पांशुमुष्टी राज्यं फलितस्तदा किं नामाश्चर्य भावसारस्तुतिपराणां मनीपितसिद्धिविधाने । तथा हे 'धीम!' धियं-ज्ञानमेव मिमीते-शब्दयति प्ररूपयतीति २० धीमः । बहिराकाराणामविद्यादर्शितत्वादवस्तुत्वेन ज्ञानाद्वैतस्य तन्मते प्रमाणत्वात् । उक्तं . च मुनीन्द्रपादोपजीविभिः
"ग्राह्यग्राहकनिर्मुक्तं, विज्ञानं परमार्थसत् । नान्योऽनुभाव्यो बुद्ध्याऽस्ति, तस्या नानुभवोऽपरः ।। ग्राह्यग्राहकवैधुर्यात् , स्वयं सैव प्रकाश्यते । वाह्यो न विद्यते ह्यर्थो, यथा वालैर्विकल्प्यते ।।
वासनालुठितं चित्त-मर्थाभासे प्रवर्तते ।" . प्रेक्ष्यतां चतुर्दशं पृष्ठम् । २ छान्दोग्योपनिषदि (भ० ८, ख० १२) प्रारम्भे उल्लेखोऽयम्, परन्तु तत्र एतद्वाक्यद्वयस्य पूर्वापरीभावः । ३ 'अथ' इति ख-पाठः। ४ 'भास्मनस्तु पुनर्भावो.' इति ख-पाठचिन्तनीयः। ५ 'तन्मानं' इति ख-पाठः। ६ 'धश्चाकाशं' इति ख-पाठः। श्वेर्वरेण्य !' इति ग-पाठः । . साक्षिरूपेण उदाहृतं पथयमकमिदं श्रीगुणाकारसूरिभिः षड्दर्शनसमुच्चयटीकायां तर्करहस्यदीपिकाभिधायाम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org