________________
श्रीशुभतिलकोपाध्यायकृतम् अथवा वैष्णवाः स्वं देवं-हरि प्रणिदधाना इंदमुद्गिरन्ति-भूर्भुवःस्वस्तदित्यादि । ओमिति प्राग्वत् । भूर्भुवःस्वस्तदिति लोकत्रये व्यापिन् !
"जले विष्णुः स्थले विष्णु-विष्णुः पर्वतमस्तके।
सर्वभूतमयो विष्णु-स्तस्माद् विष्णुमयं जगत् ॥ १॥" ५ इति वचनात् । अथवा भूरित्याश्रयो भुवः-पृथिव्याः। स्वस्तदिति "स्वर्गे परे च लोके स्वर" इत्यमरकोश(श्लो० २८४४)वचनात् स्वः-परलोकस्तं तनोतीति स्वस्तत्-परलोकहेतुः "गतिमिच्छेजनार्दनात्" इति वचनात् भवेत्यध्याहारात् न इत्यग्रे तनपदस्यह सम्बन्धनाद् अस्माकमाराधकानां परलोकः सुखावहो भवेदिति हृदयम् । तथा सवितुर्वरेण्यमिति ।
सवितुः-जनकात् वरेण्य !-प्रधानतर !, प्रजानामायतिसुखं पालनात् पितुरप्यधिकतरप्रे१० मन्नित्यर्थः । अनुनासिकस्तु प्राग्वत् । तथा भर्गोदेवेति । भर्गश्च उश्च तयोरपि देवः, पूज्यत्वात् , बाणाहवादी पार्वतीपतेः पराजयश्रवणात् , ब्रह्मणस्तु हरेनोभिपुण्डरीकजन्मतया प्रसिद्धेः । तथा स्य इति त्यदस्तदर्थस्यामन्त्रणेऽसौ प्रयोगः । ततश्च हे स्य!-हे स! स्मृतिपथप्रविष्टत्वादेवं विशेषणोपन्यासः । “संस्कारप्रबोधसम्भूतमनुभूतार्थविपयं तदित्या
कारं संवेदनं स्मरणम्” इति स्मृतिलक्षणात् । अनेन प्रणिधानकतानता ध्वन्यते, तथा १५ मतुब्लोपादभेदोपचाराद् वा धियः-पण्डिताः । 'अर्ह मह पूजायां' (सिद्ध० धा० ) इति
धातोः क्विवन्तस्य मह इति रूपम् । महतीति महः-पूजकः, आराधक इतियावत् । धियां महः धीमहः-तथाविधविद्वजनपर्युपासकपुरुषस्तस्मिन्नाराधके यका धी:-बुद्धिर्ज्ञानं तस्य अयुः-अपृथग्भूतस्तस्यामन्त्रणं हे अयो!, सद्गुरुसेवातत्पराणां बुद्धिगोचर इत्यर्थः।
न ह्यनुपासितसद्गुरूणां लोकायतिकादीनां परमात्मा ज्ञानगोचरतामञ्चति । यो न इत्य२. न्तरा अकारप्रश्लेषात् हे अ!-विष्णो ! न इति योजितमेव । प्रचोदयादिति प्रकृष्टः
चोदः-शृङ्गारभावसूचनं यस्याः सा प्रचोदा, प्रचोदा चासौ या च-लक्ष्मीः प्रचोदया, तां अतति-सातत्येन गच्छति (इति) प्रचोदयात् , तस्यामन्त्रणं हे प्रचोदयात् ! यद्वा पूर्व नः इति न योज्यते, सामर्थ्यादेवास्माकमिति प्रतीतेः । ततश्च आनःप्रचोद इति
ज्ञेयम् । हे (अ! हे ) अनःप्रचोद !' अनः-शकटं तत् प्रचोदयति-प्रेरयति इति अनःप्र२५ चोदस्तस्यामन्त्रणम् । शैशवे हि विष्णुना चरणेन शकटं पर्यस्तमिति श्रुतिः। ततः 'समानानां तेन दीर्घः' (सिद्ध० १-२-१) इति सन्धौ आनःप्रचोदेति भवति । ननु च योपदात् परे आनःप्रचोदपदे यवानःप्रचोद इति भवितव्यं कथमत्र योनःप्रचोदेति ? नैवं कातन्त्रे ‘पदात् एदोत् परः पदान्ते लोपमकार' इति सूत्रे एदोझ्यामिति सिद्धे यत् परग्रहणं तदिष्टार्थ । तेन क्वचिदाकारोऽपि लुप्यते, ततोऽत्राकारलोपात्
. 'येण व्याख्या' इति स-पाठः। २ 'अथ' इति ख-पाठः । ३ 'एवमाहुः' इति ख-पाठः । ४ 'इत्यादि वचनात्' इति क-पाठः। ५ भतः परं पाठो नास्ति ख-प्रत्याम्, वैष्णवाभिप्रायिणी व्याख्यापरिसमाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org