________________
गायत्रीविवरणम्
"अक्षपादमते देवः, सृष्टिसंहारकृत् शिवः ।
विभुर्नित्यै सर्वज्ञो नित्यबुद्धिसमाश्रयः || ” - अनु०
7
इति नैयायिकाभिप्रायेण मन्त्रव्याख्या ॥ २ ॥
अथ वैशेषिकाभिप्रायेणाप्येवमेव, तैरपि शिवस्य देवतयाऽभ्युपगमात् । नवरं परमपदावस्थास्वरूपमेवम् - "बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काररूपाणां ५ नवानां विशेषगुणानामत्यन्तोच्छेदो मोक्षः” इति ॥ ३ ॥
तन्मते
ॐ भूर्भुवःस्वस्तत् । सवितुर्वरेण्यं भर्गोदेवस्य धीम ! हि धियो यो ! नः प्रचोदयात् ।
अथवा साङ्ख्याः स्त्रं देवं - कपिलं प्रणिदधाना इदं वदन्ति - हे 'धीम !' धीःबुद्धिः तां 'माह (ग) मानशब्दयोः' (सिद्ध० धा० ? ) शब्दयति - प्ररूपयति इति धीमः - १० भगवान् कपिलस्तस्यामन्त्रणम् । ॐ भूर्भुवः स्वस्तदिति पूर्ववत् ।
"अमूर्तश्चेतनो भोगी, नित्यः सर्वगतोऽक्रियः ।
अकर्ता निर्गुणः सूक्ष्म, आत्मा कपिलदर्शने ॥"
७५
२०
इति वचनात् । सवितुर्वरेण्यमित्याक्षपादपक्षवत् । कपिलमेवोपयोगसम्पदा विशेषयतिभर् इति । 'डुभृंग पोषणे च' (सिद्ध० धा० ) । विभर्तीति भर् - पोषकः । विचि गुणे १५ 'च रूपम् । कस्येत्याह-' गोदेवस्य' । गोशब्देनात्र खुरककुदसास्नालाङ्गूलविपाणाद्यवयवसम्पन्नः पशुरुच्यते । अनेन च विधेयता लक्ष्यते । ततो गोरिव विधेयानि - वश्यानि देवानि - इन्द्रियाणि यस्य स तथा तस्य, जितेन्द्रियस्येत्यर्थः । न च गोर्विधेयता कवीनां न रूढिः, “गौरिवैति_विधेयताम्" इत्यादि लक्ष्यदर्शनात् । धीमेति व्याख्यातमेव । 'हि' स्फुटम् । 'घियो यो !' इति । हे बुद्धितत्त्वात् पृथग्भूत!, प्रकृतिपुरुषविवेकदर्शनात् २ "निवृत्तायां प्रकृतौ पुरुषस्य स्वरूपावस्थानं मोक्षः” इति वचनात्, प्रकृतिवियोगे च बुद्ध्यादीनामपि विगमात् कारणाभावे कार्याभावात् । धिय इति पदं पुनरावृत्त्या पञ्चम्यन्तं प्रचोदयेत्यनेन सम्बध्यते । ततश्च धियो - बुद्धितत्त्वात् नः - अस्मानपि प्रचोदय- प्रेरय, व्यपनयेत्यर्थः । षष्ठ्यन्तं वा धिय इति । षष्ठी च " कर्मणि शेषजा" यथा- 'भाषाणामश्नीयात्' । तथा " न केवलं यो महतां विभाषते" इत्यत्र । ततश्च नः अस्माकमपि धियं प्रकृति - २५ हेतुकां व्यपनयेति भावः । स्वयं मुक्तोऽस्मान् मोचयेतेतियवत् । 'अत्' इति । अदिति दान्तमव्ययं आश्चर्यार्थम् । तथाच अदिति आश्चर्य रूप ! तत्कारणेऽनिवृत्तत्वात् तस्यामन्त्रणं हे अद् ! | 'विरामे वा' (सिद्ध० १-३ - ५१ ) इति दस्य तः । इति साङ्ख्याभिप्रायैः ॥ ४ ॥
१ 'वैशेषिकाभिप्रायेण व्याख्या' इत्यधिकः ख- पाठः । ३ 'वा ततो माषाणामश्रीयादिस्यादिवत् धियं' इति ख- पाठः ।
Jain Education International
२ 'बुद्धितत्वं तन्मिमीते - शब्द०' इति ख- पाठः । ४ 'भावः' इति ख- पाठः । ५ लोकोऽयम् ।
For Private & Personal Use Only
www.jainelibrary.org