________________
७४
श्रीशुभतिलकोपाध्यायकृतम् (ॐ भूर्भुवःस्वस्तत् ! सवितुर्वरेण्यं भर्गोदेऽव स्य धीमहिधियो यो नः
प्रचोदयाऽत् !) अथाऽक्षपादाः [स्वं चेदनी(दिनः)?] स्वं देवम्-ईश्वरं प्रणिदधानाः प्रार्थनापुरःसरमेवमभिदधते-ॐ भूर्भुवःस्वरित्यादि । ओमिति सर्व विद्यानामादिबीजं संमग्रागमोपनिषद्भूतम् , अशेषविघ्नविघातनिघ्नम् , अखिलदृष्टादृष्टफल सङ्कल्पकल्पद्रुमोपममित्यस्य प्रणिधानस्यादावुपन्यस्तं परममङ्गलम् । न चैतद्व्यतिरिक्त अन्यत् तत्त्वमस्ति वस्तुत इति । हे भूर्भु. वःस्वस्तदिति लोकत्रयव्यापिन् !, आक्षपादानां हि शिवः सर्वगत इति । तथा सवितुःभास्वतो वरेण्य !-प्रधानतर!, सर्वज्ञत्वात् । वरेण्यं इति अनुनासिकस्तु 'अइउवर्णस्यान्तेऽनुनासिकोऽनीदादेः' (सिद्ध० १-२-४१) इति लक्षणवशात् । यथा
"सामं साम ध्रुवं तावद्, दधि दधि मधु मधु ।
श्रूयन्ते सुध्रुवामत्र, न यावन्मधुरा गिरः॥" विशेष्यमाह-हे भर्ग! उदे ! इति । उत्कृष्ट इ:-कामो यस्य स उदिः तस्यामन्त्रणं (हे) उदे !। अर्वाचीनावस्थापेक्षया विशेषणमिदम् । प्रार्थनामाह-अव स्य इति क्रियापदद्वयं
यथासङ्ख्यमुत्तरपदद्वयेनाभिसम्बध्यते । तत्र अव-रक्ष पालय वर्धयेतियावत् । किमित्याह१५ धीं-मति कर्मपदम् । धीवुद्धिः ज्ञानं तत्त्वाधिगम इत्यनान्तरम्। धियः ई:-श्रीः धीः तां, धीयुक्तां वा श्रियम् , ईश्वरतः प्रार्थना ज्ञानस्य "ईश्वरात् ज्ञानमन्विच्छेत्” इति वचनात् । तथा स्य-विनाशय । 'पोंच अन्तकर्मणि' (सिद्ध० धा०) इत्यस्य रूपम् । किमित्याहअहिधियः कर्मतापन्नाः । अहिः-सर्पः तस्येव धियः क्रूरताद्याः परापचिकीर्षादिवार्ताः ।
नः-अस्माकं, बुद्धिं वर्धय क्रूरताद्याः कुंवुद्धीश्च विध्वंसयेत्यर्थः । पुनर्विशेषणान्तरमाह-हे २० यो:-मिश्रित! सम्बद्ध ! 'युक् मिश्रणे' (सिद्ध० धा० ) इत्यस्य विचि रूपम् । कया
इत्याह-'प्रचोदया' 'चुदण् सञ्चोदने' (सिद्ध० धा०) ततः चोदनं चोदः [स]-शृङ्गारभावसूचनं, प्रकृष्टश्चोदो यस्याः सा प्रचोदा अर्थात् पार्वती तया सहेति वाक्यशेपः । अर्वाचीनावस्थापेक्षया, पार्वतीपीनपयोधरप्रणयीत्याकूतम् । परमपदावस्थायां तु प्रचोदया
अयो!-अमिश्रित ! इति व्याख्येयम् । “पडिन्द्रियाणि पडू विषयाः पडू वुद्धयः सुखं २५ दुःखं शरीरं चेत्येकविंशतिप्रभेदभिन्नस्य दुःखस्यात्यन्तोच्छेदो मोक्षः” इति नैयायिकवच
नप्रामाण्यात् । तथा उदे ! इति प्राचीनविशेषणमपि । उत्क्रान्त ए:-कार्मादित्युदिस्तस्यामन्त्रणं उदे ! इति योज्यम् । तथा अत् ! इति विशेषणम् । अत्ति-भक्षयति जगदिति अत् सृष्टिसंहारकत्वात् । उक्तं च (श्रीहारिभद्रीये पडूदर्शनसमुच्चये श्लो० १३)
. 'अथवाऽक्षः' इति क-पाठः । २ 'समस्तागमानामुपनिषद्भूतम्, अतोऽस्य प्रणिधानं परममङ्गलस्वादादौ उपन्यस्तं न चैः' इति ख-पाठः। ३ 'तत्त्वान्तरं' इति ख-पाठः। ४ 'यथा' इति ग-पाठः। ५ वर्णेस्या दिना विशेष्य.' इति स्व-पाठः। ६ 'धीमिति कर्म' इति क-पाठः। ७ 'कुबुद्धीविनाशय, पुनः' इति ख-पाठः। ८ 'स्थायर्या' इति ग-पाठः। ९ 'दिति सिद्धिस्तस्याः' इति ख-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org