________________
गायत्रीविवरणम्
७३ इत्यादि । शिष्यं प्रति शिक्षामाह-हे नः!-नर! नृशब्दस्थामन्त्रणे रूपम् । सबहुमानं ह्यामन्त्रितः शिष्यः प्रस्तुतार्थश्रवणे उत्साहितो भवति, अतो विशेषणमाह-'धियोऽयो !' इति। 'युक् मिश्र[व]णे' (सिद्ध० धा०) इत्ययं परैरमिश्र[वणे चेत्यधीयते, अतो यौति-पृथग्भवतीति युः। विचि छान्दसत्वाद् गुणाभावः। न युरयुः तस्यामन्त्रणं हे अयो!-अपृथग्भूत! कस्याः? 'धियः' वुद्धितः । यतः त्वं बुद्धेरपृथग्भूतो बुद्धिमान्-प्रेक्षापूर्वकारी, अतस्त्वं ५ शिष्यसे । तदन्यत्र हि रक्त-द्विष्ट-मूढ-पूर्वव्युद्राहितादावुपदेशानहत्वात् अन्धकारनृत्तानुकारी प्रयास इति । पुनर्युत्पाद्यस्यैव विशेषणान्तरमाह-'प्रच!' इति । प्रकृष्टं चरतीति प्रचः-प्रकृष्टाचारो मार्गानुसारिप्रवृत्तिरितियावत् 'क्वचिद्' (सिद्ध० ५-१-१७१) इति डे रूपम् । यथा वा प्रचः-हंस इति, प्रकृष्टाचारे झुपदेशसाफल्यं, आचारपराङ्मुखाणां शास्त्रसद्भावप्रतिपादने प्रत्युत प्रत्यवायसम्भवात् । किम् ? 'उदयात्' उदयं प्राप्तम् । अनन्य- १० सामान्यगुणातिशयसम्पदा प्रतिष्ठितमाराध्यत्वेन परमेष्ठिपञ्चकं कर्तृभूतमिति । अयमिह तात्पर्यार्थः-ईश्वर-ब्रह्म-विष्णुषु उपलक्षणत्वादन्येष्वपि कपिल-सुगतादिषु दैवतेषु मध्ये भो पुरुष! ज्ञानवन् ! प्रकृष्टाचार! परमेष्ठिपञ्चकमेव पूर्वदर्शितदिङमात्रगुणातिशययोगादाराध्यतया प्रतिष्ठितम् , अतस्तदेवाराधनीयं, तदेव चोपासनीयं, तदेव शरणतया प्रति. पत्तव्यं, तदाज्ञामृतरस एवास्वादनीयः, तद्व्यतिरिकाराध्यान्तरस्यासद्भावात् । भावेऽपि १५ (च) वस्तुतस्तत्त्वानुपपत्तेः, तदोषाणां लेशत इहैव निर्णीतत्वात् , तद्व्यवच्छेदेन चाराध्यतायामतिप्रसङ्गः । उक्तं च
“कामानुपक्तस्य रिपुप्रहारिणः, प्रपश्चिनोऽनुग्रहशापकारिणः। __ सामान्यपुंवर्गसमानधर्मिणो, महत्त्वकृप्तौ सकलस्य तद् भवेत् ॥" इति । इह चाधीमहि वसीति विशेषणेन तेषां रागसूचनं, सोहचर्याद् द्वेष-मोहावप्यवसेयौ, २० तेषामायुधादिसद्भावात् पूर्वापरव्याहतार्थागमाद्यभिधानाच्च, यदुक्तम्
"रागोऽङ्गनासङ्गमनानुमेयो, द्वेषो द्विषद्दारणहेतिगम्यः ।
मोहः कुवृत्तागमदोषसाध्यः ॥" इत्यादि । आचार्यादीनां न सर्वथा रागादिक्षय इति चेत् ? न, तेषामप्याप्तोपदेशेन रागादिक्षयार्थ प्रवृत्तेस्तथाविधरागाद्यसद्भावात् तदत्यन्तक्षयस्य च भावित्वात् भाविनि भूतवदु-२५ पचारात् वीतरागितैवेति, भावाचार्यादिभिरेवानाधिकार इति सर्व समञ्जसम् । इत्यार्हताभिप्रायेण मन्त्र व्याख्या ॥
'विशेष्यसे' इति ख-पाठः। २ 'पुनः शिष्यस्यैव' इति ख-पाठः। ३ श्रेण गुणा' इति ख-पाठः। ४ 'तथाहि-कामा०' इति ख-पाठः। ५ "विशेषणे द्वेषस्योपलक्षणं भायुधादिसद्भावेन द्वेषस्यापि तेषां सद्भावात् । इति जनमताभिप्रायेण व्याख्या ॥॥' इति स-पाठः। तर्करहस्यदीपिकाऽनुसारेण (पृ. १५) भवशि चरणं वेवम्-"मो पल्प देवः स स चैवमहम्"। .
अर्थ. १.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org