________________
७५
गायत्रीविवरणम् विषयेण केवलज्ञानात्मना लोकत्रयव्याप्तिः ज्ञानात्मनोः स्यादभेदात् , शेषत्रयस्यापि श्रद्धानविषयतया "संबगयं समत्तं" इति (विशेषावश्यक गा० २७५१ ) वचनात् सामान्यरूपतया ज्ञानाद् वा । अत एव सवितुर्वरेण्यं-सहस्ररश्मेः सकाशात् प्रधानतरं, तदुयोतस्य देशविपयत्वात् प्रस्तुतपञ्चकसम्बन्धिनो भावोयोतस्य सर्वविषयत्वात् । आहुश्च ५ पूज्याः (श्रीभद्रबाहुस्वामिनः आवश्यकनियुक्तौ लोगस्साधिकारे)-"चंदाइञ्चगहाणं"
इत्यादि । न चाचार्यादित्रयस्य कैवलिकज्ञानलम्भो नास्तीति वाच्यम् । तेषामपि कैवलिकज्ञानोपलब्धानां भावानां सामान्येन ज्ञानसद्भावादित्युक्तं भर्गोदे इति । भर्ग इति ईश्वरः । उरिति ब्रह्मा दयते-पालयति जगदिति दो-विष्णुः 'कचिद्' (सिद्ध०५-१-१७१)
इति डे रूपम् । लोके हि जगद् ब्रह्मोत्पादयति रजोगुणाश्रितः, विष्णुः स्थापयति सत्त्व१० गुणाश्रितः। ईश्वरः संहरति तामसभावाश्रितः इति । भर्गश्च उश्च दश्चेति भर्गोदः, द्वन्द्वैकवद्भावात् , तस्मिन् । किंविशिष्टे ? 'वसि' वसतीति वस् विचि रूपं तस्मिन् वसि। क वसि इत्याह-'अधीमहि' अस्य (-विष्णोः ) अपत्यं इ:-कामः तस्य मह्यो-भूमयः इमह्यःकामिन्यस्ता अधिकृत्य अधीमहि-स्त्रीषु तिष्ठमाने, ख्यायत्तात्मनीत्याशयः । प्रतीतं चैत
दीश्वर-ब्रह्म-विष्णुषु कामिनीपरवश(क)त्वम् । पार्वत्यनुनयार्थमीश्वरस्य ताण्डवाडम्बर१५ श्रुतेः । ब्रह्माणमधिकृत्य वेदेऽप्युक्तम्-"प्रजापतिः स्वां दुहितरमकामयत्" । विष्णोस्तु गोपादिवल्लभोपदर्शकतत्तद्वचनश्रवणात् । पठ्यते च
"राधा पुनातु जगदच्युतदत्तदृष्टि
मन्थानकं विदधती दधिरिक्तभाण्डे । तस्याः स्तनस्तबकलोलविलोचनालिदेवोऽपि दोहनधिया वृषभं निरुन्धन् ॥"-वसन्त०
सम्पूर्णा गाथा तछाया च यथा
"सम्वगयं सम्मत्तं, सुत्ते चरित्ते न पज्जवा सम्धे । देसविरई पदुच्चा, दोण्ह वि पडिसेहणं कुजा ॥" सर्वगतं सम्यशवं श्रुते चरिग्रेम पर्यवाः सर्वे ।
देशविरतिं प्रतीत्य द्वयोरपि प्रतिषेधनं कुर्यात् । २ 'भंत भाई' इति ख-पाठः। ३सममा गाथा तछाया चैवम्
"चंदाइशगहाणं, पहा पयासेइ परिमियं खिन । केवलियनाणलंभो, लोगालोगं पयासे ह॥" चन्द्रा-ऽऽदित्यग्रहाणां प्रभा प्रकाशयति परिमितं क्षेत्रम् ।
केवलिकज्ञानळाभो लोकालोकं प्रकाशयति ॥ . 'तमोगुणान्वितः' इति ख-पाठः। ५ वरादिषु' इति ख-पाठः। ६ ईश्वरेण हि कामाम्धेम पा. त्याः पुरो नाव्यं कृतं, बझा' इति ख-पाठः।.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org