________________
श्रीशुभतिलकोपाध्यायविरचितं ॥ गायत्रीविवरणम् ॥
ॐ नमः ॥ श्रीजिनाय नमः ।। चिदात्मदर्शसान्त-लोकालोकविहायसे ।। परिवाग्वर्तिरूपाय, प्रणम्य परमात्मने ॥ १॥-अनु० गम्भीरार्धामपि श्रुत्वा, किश्चिद् गुरुमुखाम्बुजात्। परेपामुपयोगाय, 'गायत्रीं' विवृणोम्यहम् ॥ २॥-अनु० इमां ह्यनादिनिधनां, ब्रह्मजीवानुवेदिनः ।। आमनन्ति परे मन्त्रं, मननत्राणयोगतः ॥ ३ ॥-अनु. गायन्तं त्रायते यस्माद्, गायत्रीति ततः स्मृता ।
आचारसिद्धावप्यस्या, इत्यन्वर्थ उदाहृतः ॥ ४ ॥-अनु० मन्त्रश्च स प्रमाणको टिसण्टङ्कमाटीकते यः सर्वपार्षदो भवति अहमित्यादिवदिति सर्वदर्शनाभिप्रायेण गायत्री व्याख्यानायोपक्रम्यते । सा चेयं सूत्रतःॐ भूर्भुवःस्वस्तत् सवितुर्वरेण्यं भगदि वस्यधीमहि धियोऽयो! न:! प्रचोदयात्
अस्य व्याख्या-0मिति परमेष्ठिपञ्चकमाह । कथमिति चेदुच्यते-अर्हन्त इत्याद्यक्षरं १५ अः। अशरीरा इति सिद्धास्तदाद्यक्षरं अः । आचार्या इत्याद्यक्षरं आ । उपाध्याया इत्या." धक्षरं उः। मुनीत्याद्यक्षरं अस्वरम् सन्धिवशात् ओम् । पदैकदेशेऽपि पदसमुदायोपचारादेवमुक्तिः। तदेवासाधारणगुणसम्पदा विशिनष्टि-भूर्भुवःस्वरिति । भूरित्यव्ययं भूलोंके । भुव इति भूलोके । स्वरिति स्वाके । त्रयाणां द्वन्द्वे भूर्भुवःस्वः । अधस्तिर्यगूलरूप लोकत्रयं तत् तनोति-ज्ञानात्मना व्यामोति भूर्भुवःस्वस्तात् । प्रसिद्धा धर्हत्सिद्धानां सर्वद्रव्यपर्याय. २०
पारे वाग्वृति.' इति प्रतिभाति । २ 'मुपकाराय' इति ख-पाठः । ३ 'मनादि' इति ख-पाठः। 'पर' इति क-पाठः। ५ 'गायितं गायितं यस्मात्' इनि ख-पाठः। ६ स एवं प्रमाणकोटिमाटीकते' इतिख-पाठः । • भई मिस्यस्य भः । [भ] सिद्धा अकर्मका इति तेषामपि अः। भाचार्याणां ना। उपाध्यायानां उः । जातं भो इति । मुनीनां मकारे ॐइति । पदे.' इति ख-पाठः । ८उक्तंच
"भरिहंता भसरी आयरिया उपझाया मुणिणो।
पंचक्खानिप्पनो ॐकारी गंध परमेही।" ९ विशेषणतया विशिनष्टि । भूरित्यव्ययं भूवाचकम् । भुव इति पाताललोके' इति स-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org