________________
अर्थ रत्नावली मत्सरेणाहतो मूखों-ऽसहमानः परोन्नतिम् । सच्छास्त्रं दूषयत्येव, वारिकुम्भमरिष्टवत् ॥ २९ ॥-अनु० मात्सर्यमुत्सार्य विचार्य सम्यक्
ज्ञात्वा प्रयासं मम दुष्करं च । कृत्वा प्रसादं कवयो गुणज्ञाः
प्रमाणयन्तु स्फुटमेतदथान् ॥ ३० ॥-उप० यदत्र शास्त्रे मतिमान्द्यदोष- -- - वशादशुद्धं किमपि स्फुटं स्यात् । विशोधयन्तूग्रधियः प्रसद्य -
तृणं यथा निर्मलसौधकुण्डात् ॥ ३१ ॥-उपेन्द्र० श्रीविक्रमनृपवर्षात् , समये रसजलधिरागसोम(१६४६)मिते ।।
श्रीमल्लाभ'पुरेऽस्मिन् , वृत्तिरियं पूर्णतां नीता ॥ ३२ ॥-आर्या अर्थरत्नावली वृत्तिः, कविकण्ठावलम्विनी । वाच्यमाना चिरं नन्द्याद्, यावच्चन्द्रदिवाकरौ ॥ ३३ ॥-अनु०
१५ इति श्रीमत्खरतरगच्छाधिराजश्रीजिनमाणिक्यसूरिपट्टालङ्कारश्रीअकबरसाहि
जलालदी(लुद्दी)नप्रदत्त युगप्रधानपदविरुदश्रीश्रीश्रीमजिनचन्द्र सूरिशिष्यमुख्यपण्डितप्रवरसकलचन्द्रगणिमणिशिष्यवाचकसमयसुन्दर. गणिविरचिता अर्थरत्नावलीनाम्नी अष्टलक्षार्थी .
सम्पूर्णा ॥ श्रीः॥
4.COM
or: "
.
M
.
PADAACADDARADABAD
, 'काव्ये' इति प्रो-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org