________________
श्रीसमयसुन्दरंगणिकृता प्रणमदमरचन्द्रा निर्जितश्लोकचन्द्रा
इह भुवि जिनचन्द्राः सूरिराजीसुरेन्द्राः ॥ १८॥-मालिनी यद्दीक्षिताः समभवन् पंदिनः सुशिष्याः
श्राद्धाश्च सपतयोऽर्पितवासयोगात् । प्राप्तोदयः प्रवरलब्धिसमृद्धिसिद्धेः
पात्रं ततोऽजनि जिनोदयसूरिराजः ॥ १९ ॥-वसन्ततिलका रेजिरे राजराजास्या, राजराजिनमस्कृताः।
श्रीजिनराजसूरीन्द्रा, भव्यराजीवभास्कराः॥२०॥-अनु० श्रीम जेसलमेरुदुर्ग'नगरे 'जावाल'पुर्या तथा
श्रीमद्देवगिरौं' तथा 'अहि'पुरे 'श्रीपत्तने' पत्तने । भाण्डागारमबीभरद् वरतरैर्नानाविधैः पुस्तकैः
स श्रीमज्जिनभद्रसूरिसुगुरुर्भाग्याद्भुतोऽभूद् भुवि ॥ २१ ॥-शार्दूल. ततः क्रमाच्छीजिनचन्द्रसूरिः, समुद्रसूरिर्जिनहंससूरिः । माणिक्यसूरिर्गुणरतसूरिर्जातस्ततः सारविचारसूरिः ॥ २२ ॥-उप०
तदीयपंदपूर्वाद्रि-प्रकाशनरविप्रभाः। · श्रीजिनचन्द्रसूरीन्द्रा, जयन्ति जयिनोऽधुना ॥ २३ ॥-अनु० येभ्यो मुदाऽदायि युगप्रधान-पदं प्रभुश्रीमदकव्यरेण । प्रभूतभाग्योदयसुप्रसिद्धा, जयन्तु ते श्रीजिनचन्द्रसूरयः ॥ २४ ॥-उप० (1) श्रीसाहिवाक्याद् गुरुभिः प्रमोदाद, ये वर्यमाचार्यपदे प्रतिष्ठिताः । जामधशोराशिविराजमाना, जयन्ति ते श्रीजिनसिंहसूरयः ॥ २५ ॥-उप० २. तचारुचरणाम्भोज-चञ्चरीकमनाः सना । गणिः सकलचन्द्राख्यो, विख्यातो मुख्यशैक्षकः ॥ २६ ॥-अनु० तच्छिष्योऽभ्यस्विकृत्यर्थ, गणिः समयसुन्दरः। वाचकः संव्यधान वृत्ति-मर्थरमावलीमिमाम् ॥ २७ ॥-अनु० श्रीजितसिंहमुनीश्वर-वाचकवरसमयराजगणिराजाम् । महिरीकगुरूणा-मनुग्रहो मेऽत्र विज्ञेयः॥ २८ ॥-आर्या
१५
पतिनाति प्रो-पाठः। . 'पद्' इति क-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org