________________
गायत्रीविवरणम् शान्तिकपौष्टिकादौ । उरिति ब्रह्मा । स च पीतवर्ण धनति स्तम्भादौ पीतरक्तयोः कविरूम्यैक्यात् रक्तवर्णस्यापि ग्रहणं वश्याकर्षणयोः। द इति कृष्णस्तेन च कृष्णवर्णो गम्यते धूम्रत्वेऽपि सादृश्यादेवमुक्तं, वो द्वेपोच्चाटनावसानेषु इत्यादिरन्योऽपि, श्रीमतोऽस्य बीजाक्षरस्य प्रणिधानविधिर्यथाऽऽम्नायमवसेयः ॥ यदि वा ओमित्यनेन
"चट्टकला अरिहंता, निउणा सिद्धा य लोटकल सूरी।
उवज्झाय विसुद्धकला, दीहकला साहुणो सुहया" ॥ इति (भत्तिभरस्तोत्रगतदशम )गाथोक्तरहस्येन परमेष्ठिपञ्चकमेव महानन्दार्थिना (जनेन) ध्येयमिति ॥ अथवा भूरित्यनेन पृथ्वीतत्त्वमुच्यते । भुइत्यनेन भुवनं जलतत्त्वम् । वइत्यनेनं वह्नितत्त्वम् । स्वस्तत्सवि इत्यनेन वाय्वाकाशतत्त्वे । तत्र स इत्यनेन समीरणतत्त्वम् ।। विरित्यनेन वियत्तत्त्वम् । स्वर्-ऊर्ध्वलोकं मुखमस्तकरूपं तनोति-व्याप्नोति इति स्वस्तत्, तच्च तत् सविता चेति समासः ।।
"तत्त्वपञ्चकमिदं विनियोगात् स्मर्यमाणमघजातिविघाति ।
कल्पवृक्ष इव भक्तिपराणां पूरयत्यभिमतानि न कानि? ॥" अथवा रेण्यं धीमहि इति हि हकारे (रे)रेफे च धी इति ईकारे च ण्यं इति बिन्दौ च १५ योजिते (ही) मायावी, तदप्यचिन्त्यशक्ति, सर्वमन्त्रेषु सार्वभौमायितत्वात् । इदमेव मायावीजं मुद्गादिकं (?) महिधियोयोनः इति नात्परस्य विसर्गस्य क्रमाद् योजने नम इति भावातू तदन्तो महामन्त्रः “वर्णान्तः पार्श्वजिनः” इत्यादिवचनप्रामाण्यात् , तथा वरेण्यमिति । वस्थाऽकारात् परे रगतैकारे ऐमिति विन्दौ च वाग्वीजं, ऐं। अधीमहीत्यत्रातिपक्षे इ:-काम उक्तः, अतस्तद्रबीजमपि (स्मरवीज) खचितसकलीकाररूपं निरूपितम् । तथा वैष्णवपक्षे या २० इति लक्ष्मीर्व्याख्याता ततस्तेन लक्ष्मीबीजमुपक्षिप्तं रिव(ख)चितश्रीस्वरूपम् । अथवा महि इति हि व्यञ्जनहकारे सवितुरिति सस्वरसकारे ओमित्योंकारे च योजिते हसोम् भवति । ततो वाग्वीजस्मरबीजप्रमुखप्रस्तुताक्षराणां संयोगे श्रीपद्मावती-त्रिपुरादिमहादेवताराधनाः परममन्त्राः सर्वार्थसिद्धिनिबन्धनं भवन्ति विविधानुस्मर्यमाणा इति । तथा स्व इति
, 'कक्षयति' इति स्व-पाठः । २ छाया
वृत्तकला अर्हन्तो निपुणाः सिद्धाश्च लोहकलाः सूरयः ।
उपाध्याया विशुद्धकला दीर्घकलाःसाधवः सुखदाः ।। ३ श्रीमानतुङ्गसूरिकृते भत्तिभरेत्यपरनामके पश्चपरमेष्ठिस्तवे 'सरणं' इति पाठान्तरम्। इति स-पाडा ५ 'इति वायुतत्वम्' इति ख-पाठः।
६ 'धना महासिद्धि' इति व-पाठः ।
अर्थ. ११
'चाकाशः'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org