________________
८२
श्रीशुभतिलकोपाध्यायकृतम्
स्वराः । भर्ग उरिति ऊकारादूष्माणः । सवितुरिति द्वादशसङ्ख्या सूचनम् । तत ऊष्माणः सवितृस्वरान्तास्तक्षकस्यापि विपोर्मिहृत इति रहस्यम् । महि इति मस्थाकारात् परे हि हकारे रे च ण्यमिति बिन्दौ च योजिते सिद्धचक्रस्यादिवीजं सर्वदेवतानामेकलीला गृहं प्रणव तुल्यफलं सम्पत्सम्पादननिपुणं अर्हमिति बीजाक्षरं सूचितम् । इत्यनया दिशा अन्यदपि विद्वद्भिः ५ स्वप्रज्ञाऽनुसारेण वाच्यम् । “सांयोगिका अमी अर्थाः” इति चोक्तेः, किमाह ? सर्वेषामपि मन्त्राक्षराणां संयोगिकत्वात्, संयोगमात्रस्यैव चाभिधेयत्वात् । तथा चाभिधीयते - " अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम् ।
अधना पृथिवी नास्ति, संयोगाः खलु दुर्लभाः ॥”
- इति । एवं रक्षादियन्त्राण्यपि वाच्यानि । यथा - अत्र मायावीजमुक्तं तदुपरि यन्त्रन्यासः १० (क्रियते । तथा वश्यादिभावाः ( प्रयोगाः ) अपि ज्ञेयाः । यथा भर्गो इति गोशब्दात् गोरोचना महि इति मनःशिला देव इति वा वह्निशिखं अरुगे पद (१) मित्यर्थः । प्रचोदयादिति वाद्दलानि एभिः सवितुरिति विशब्दाद् विशेषको विलेपनं वा । यो इति योशब्दात् योनिमतीनां स्त्रीणां न इति नशब्दान्नराणां नरेन्द्राणां च प्रियताकरम् । तथा प्रचोदयादिति प्रकारात् प्रदीपनानां विषाणामसाध्यतानिदानमित्यादि । अधीमहीति अकारादजा१५ मेषशृङ्गी तस्याः प्रचोद इति वा दलानि - पत्राणि भा ? भर्गोदेवेति गोशब्दात् गोधूमसकवः भा ? मदीति मात्- मधु धूलिः भा २ सवितुरिति सात् सर्पिषा सह भर्गो इति भात् भक्षयेत् । वरेण्यमिति वात् बलवीर्यकरं प्रचोद प्रात् प्रभञ्जनहरं इत्याद्यौषधिविधयोऽ-प्यत्र ज्ञेयाः ॥
२०
चक्रे श्रीशुभ तिलको - पाध्यायैः स्वमतिशिल्पकल्पनया । व्याख्यानं गायत्र्याः, क्रीडामात्रोपयोगमिदम् ॥ १ ॥
१ अतः परं पुष्पिकां विहाय पाठो नास्ति ख- प्रतौ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org