________________
श्रीविवेकसागरविरचितः
॥ हरिशब्दार्थ गर्भितः श्रीवीतरागस्तवः ॥
इन्द्रे - भा-श्व-शुक-वा-हि-पवन-स्वर्णा- शुं- लोकान्तैरेभारि --- कपीन्दु पीतं - गरुड - श्री शुक्र-विष्ण्व-र्कजैः ।
सूत - स्कन्द - शनी-श-वंश-वरुण - प्राणाऽग्नि भीताऽसि तै
रर्थैस्त्वां हरिजैः क्रमाज्जिनपते ! त्रिंशन्मितैः स्तौम्यहम् ॥ १ ॥ - शार्दूल ●
भज भक्तिविनम्रनरेशहरिं १ भज कर्ममहीरुहभङ्गहरिम् २ |
भज सिद्धिपुरीपथपान्धहरिं ३ भज योगिमनः सहकार हरिम् ४ ॥ २ ॥ - * पादाकुलकम् भज वाणिफणिह (क्ष) तवादिहरिं ५ भज भीमभवानिलहा निहरिम् ६ । भज पापरंजनजनाशहरिं ७ भज सौवशरीररुगस्तहरिम् ८ ॥ ३ ॥ भज शोकतटाकतपोऽर्कहरिं ९ भज चिद्विदिताङ्गिसमस्तहरिम् १० ॥ भज दर्पमतङ्गजराजिहरिं ११ भज पारगतं तिमिरौघहरिम् १२ ॥ ४॥ जयन्त्रित हैपी हरिं १३ भज वादिकदम्बकको हरिम् १४ ॥ भज चम्पकसून विशेषहरिं १५ भज मारसरीसृपजग्धिहरिम् १६ ॥ ५ ॥ भज दत्तनमज्जननैकहरिं १७ भज लोकदनुद्भवशास्तिहरिम् १८ ॥ भज तं नरकक्षयकारहरिं १९ भज रूपरमापरिभूतहरिम् २० ॥ ६ ॥ भज केवलकाञ्चनसिद्धिहरिं २१ भज हांसहिमप्रभ शीलहरिम् २२ । भज सौख्यविधातृ तृतीयहरिं २३ भज मोहविपाभ्यवहारहरिम् २४ ॥ ७ ॥ भज जन्मपवित्रितहारिहरिं २५ भज संयमनीरधिवासहरिम् २६ । भज रक्षित सर्वजनौघहरिं २७ भज कर्मसमिद्दहनै कहरिम् २८ ॥ ८ ॥ भज दुस्तरसंसृतिसङ्गहरिं २९ भज नेत्रविकारविनाश हरिम् ३० । भज शारदचन्द्रसमानयशोघनसारसुगन्धितभूवलयम् ॥ ९ ॥ जिनवर ! परमार्हतस्तवस्ते व्यरचि मया गुरुसोमसुन्दरास्य (?) ।
प्रवितर सुविशालराजराजद्गुणं मम वर्यविवेकसागरं त्वम् ॥ १० ॥
दुई
X
***
奴
१ भेकः । २ रविप्रवृत्तिकरः । ३ भवान्तरम् । ४ सूर्यः । ५ पीतवर्णः । ६ स्वर्वैयौ अश्विनीकुमारकौ । ७ पारदः । ८ स्वामिकार्तिकेयः । ९ वागेव फणिनः- सर्पास्तैर्गमिता वादिन एव हरयो-मेका येन । १० अकारान्तोऽपि वर्तते शब्दोऽयम् । ११ इन्द्रियम् । १२ दैत्यः | १३ तृतीयः शनिः सुखकारकोऽस्ति इति रत्नमालायाम् । वृत्तरत्नाकरेऽस्य लक्षणमेवम् - मात्रासमकं नवमालगन्तम्, उपचित्रा नवमे परयुक्ते, अष्टाभ्यो भाद् गावुपचित्रा जान्हावथाम्बुधेर्विश्लोकः, तद्युगलाद् वानवासिका स्यात्, बाणाष्टनवसु यदि लश्चित्रा । यदतीतकृतविविषलक्ष्मयुतैर्मात्रासमा दिपादैः कलितम् अनियतवृत्तपरिमाणसहितं प्रथितं जगत्सु 'पादाकुलकम्' ॥
Jain Education International
१०
For Private & Personal Use Only
१५
२०
www.jainelibrary.org