________________
५
१०
१५
॥ श्री ऋषभजिनस्तुतिः ॥ कामक्रीडाच्छन्दोनिबद्धा सारङ्गशब्दार्थसङ्कलिता च । ( सावचूरिः । )
Jain Education International
श्रीनाभेयं योगिध्येयं देहज्योतिःसारङ्गं ( १ ) सर्वश्रेयः श्रेयः पद्यागत्यामाद्यत्सारङ्गम् (२) । कर्मक्षोणी जन्मश्रोणी श्रेणीध्वंसे सारङ्गं (३)
नौम्युत्कण्ठाव्याप्तस्वान्तः सौवस्थाम्ना सारङ्गम् (४) ॥ १ ॥ अर्हद्वृन्दं लृप्तानन्दं चंश्चच्चक्षुः सारङ्गं (५)
“विश्वासत्यव्याधादित्यच्छायाभेदैः सारङ्गं (६) । क्षामाक्षेमं दक्षक्षोणी कौमुद्यामुत्सारङ्गं (७)
"श्रेयोरत्याः कण्ठाश्लेषे स्तोष्ये नन्दत् सारङ्गम् (८) ॥ २ ॥ 'स्तोम्यध्वान्तं ध्वस्तध्वान्तं श्रीसिद्धान्तं सारङ्गं (९) भैव्याम्भोजेष्वाविर्भूतानन्दाम्भोरुट्सारङ्गम् (१० ) । अज्ञानाली पाथोदाली शत्या (?) दृप्यत्सारङ्गं (११) दारूणां भीरूणां वक्षोवृक्षे सारङ्गम् ( १२ ) ॥ ३ ॥
१ श्रीनाभिराजसुतम् । २ साधुध्यानगम्यम् । ३ शरीरकान्तिस्तया सुवर्णोपमम् । ४ सकलकल्याणसमीचीन मार्गगमनविषये बलवत्सारङ्गमिव सारङ्गम् - अश्वम् । ५ कर्माणि अष्टौ तान्येव क्षोणी- पृथिवी जन्तो:- जन्मवतो या श्रोणिर्गुह्याकारा तद्ध्वंसने सारङ्गं - हस्तिनम् । ६ अहं उत्कण्ठाव्याप्तखान्तः - हर्ष - पूरितमनाः श्रीनाभेयं जिनम् । ७ स्वकीयबलेन सारङ्गं - सिंहम् । ८ अहं अर्हद्वृन्दं स्तोध्ये - स्ववीमि । 'कीदृशम् अईन्दं - जिनसमूहं ? क्लृप्तानन्दं - सम्पादितहर्ष रचितप्रमोदम् । ९ देदीप्यमाननयनाभ्यां मृगम् । १० सर्वमृषावादपर्वकालीनसूर्यप्रभाभेदने सारङ्गमिव सारङ्गं - राहुतुल्यम् । ११ कृशीभूतदुरितम् । १२ दक्षा:- प्रवीणास्त एव क्षोणीकौमुद्यः - पृथ्वीचन्द्रज्योत्स्नास्तासां मुदः - हर्षास्तेषां सम्पादने सारङ्गमिव सारङ्ग-चन्द्रम् । १३ माङ्गल्यरत्याः - कल्याणकामस्त्रिया आलिङ्गने नन्दत्-माद्यत् सारङ्गमिव सारङ्गं - कन्दर्पम् । १४ नुवीमि अध्वान्तं - प्रकाशरूपं सिद्धान्तं स्तौमि सारङ्गं - सूर्यम् । १५ भव्यकमलेषु प्रकटीभूत प्रमोदजलरुहपालीषु सारङ्गं - हंसम् । १६ अज्ञानसमूहजलधरश्रेणीहरणविषये हृप्यत्-माधत् सारखं - वायुम् । १७ अभिवन्दितणाम् । १८ भयकाष्ठानाम् । १९ पञ्जरवृक्षे सारङ्गं - शुकसदृशम् ।
For Private & Personal Use Only
www.jainelibrary.org