________________
४२
अर्थरावली
[अर्थाः ९२८-९६८ ] "नः पुनर्बन्धबुद्धयोः" इति (एकाक्षर०)वचनात् अन:-अबन्धः सौख्यं १ असौख्यं २ च ददते २ ॥१०॥ इमानि 'प्रियबन्धाऽप्रियवन्धयोर्वचनानि । पूर्व १० मी० २० ॥
(लाजाः! नो ददते सौख्यम् ) एवं हे लाजाः! ५ व्युत्पत्त्यादि पूर्ववत् । नो-बुद्धोऽवगततत्वः सौख्यं १ असौख्यं ५२ ददते । इमानि ज्ञानिमूर्खयोर्वचनानि २॥ १० ॥ पूर्व २० मी० ३०॥
(लाजाः! ना उ ददते सौख्यम् ) हे लाजाः! ५ उ इति आमन्त्रणे । ना-पुमान् सौख्यं १ असौख्यं २ च ददते । अर्थयोजना स्वयं कार्या ॥ १० ॥ पूर्व ३० मी० ४० ॥
(लाजाः! नो दद ! तेसौख्यम्) १० एवं लाजाः ! राजाः! वा ५ यूयं तेसौख्यं-लक्ष्मीकामसुखं नो-न दद ५ । एवं नो न दद ? अपि तु अदद्ध्वमित्यर्थः ॥ १०॥ पूर्व ४० मी० ५० ॥ सर्वे० ॥ ९२७ ॥
ल-अ-अजाः नो ददते सौख्यम् ॥ ९२८-९३३ ॥ "ल इन्द्रे चलने स्मृतः" इति तिलकानेकार्थवचनात् लेन-चलनेन गत्या अस्यवायोः अजा:-क्षेपकाःलाजाः 'विशेषणाद् विशेष्यप्रतीतेः' (इति न्यायात्) लाजा:-अश्वाः १५न:-अस्मभ्यं १ अस्माकं २ वा नो-न सौख्यं १ असौख्यं २ वा ददते । इदं प्रियाश्वानां तद्धिपरीतानां च पुरुषाणां वचनं ॥ ६ ॥ सर्वे० ॥ ९३३ ॥
ल-अ-आ जा! नो ददते सौख्यम् ॥९३४-९३५॥ ले-आकाशे अतन्ति-गच्छन्ति अटन्तीति वा लाः एवंविधाः आः-चन्द्राः लाजाः । हे जाः!-हे जेतारः! पुरुषाः! लाजाः नो-न सौख्यं ददते । इदं विरहिण्या वचनम् । २० एवं नो-न असौख्यं ददते । इदं संयोगिन्या वचनम् ॥ २॥ सर्वे० ॥ ९३५ ॥
राजा नो ददते अः सौख्यम् ॥ ९३६-९६८ ॥ अ-कृष्णः नः-अस्मभ्यं १ अस्माकं २ वा सौख्यं १ असौख्यं २ च ददते । किं० अः? 'राजा' स्वामी ॥४॥ एवं शिवश्वायुरब्रह्म३चन्द्र४अग्नि५वाचकेनाऽपि अशब्देन समं प्रत्येकं ४ अर्थाः कार्याः । यत्र स्वाम्यों न सम्भवति तत्र राजते शोभते इति २५ कर्तव्यम् । ततः पञ्चगुणिताः चत्वारो जाताः २० ॥ पूर्व ४ मी० २४ ॥ सर्वे० ॥९५६ ॥
एवं अर्हसिद्धरवाचकेनाऽपि अनिरुद्ध(३)वाचकेनाऽपि अशब्देन समं प्रत्येक चत्वारः चत्वारोऽर्थाः कार्याः । त्रिगुणिताः जाताः १२ ॥ सर्वे० ॥ ९६८ ॥
, 'प्रियवन्धाबन्धयोः' इति ग-ध-पाठः । २ नो-न ३ वा इति प्रतिभाति ।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org