________________
४३
[अर्थाः ९६९-१००४; १-१४० ] श्रीसमयसुन्दरगणिकृता
राजा नः अदतत इ. सौख्यम् ॥ ९६९-९८९॥ इ:-कामः नः-अस्मभ्यं १ अस्माकं २ वा सौख्यं अददत-अदात् । किं० इ.? 'राजा' रञ्जयति कामिजनमनांसीति राजा । राजते वा राजा । एवं इ:-कामः नः-अस्माकं सौख्यं अददत ? अपि तु नेति काका व्याख्येयम् । आरक्तविरक्तयोर्वचनमेतत् ।एवं अस्यईश्वरस्य अपत्यं इ:-विनायकः १ एवं अस्य-वायोः अपत्यं इ:-हनुमान् पवनपुत्रत्वात् ५ तस्य २, एवं अस्य-चन्द्रस्य अपत्यं इ:-बुधः ३, एवं अस्य-अग्नेः अपत्यं इ:-अग्निपुत्रः ४ एवं अस्य-गरुडस्य अपत्यं इ:-गरुडपुत्रः ५, एवं अस्य अर्हतोऽपत्यं इ:-गणधरादि: ६ इत्यर्थवाचिनाऽपि इशब्देन समं प्रत्येकं त्रयः त्रयोऽर्थाः कार्याः । जाताः षड्भिर्गुणिताः १८ । पूर्व ३ मी० २१ । अर्ययोजना स्वयं कार्या । अत्र सर्वत्र विसर्गलोपः चित्रादित्वात् न दोषाय ॥ सर्वे० ॥९८९ ॥
राज! आ नः अददत ईः सौख्यम् ॥ ९९०-१००४ ॥ हे राज! हे लाज! वा । पूर्वोक्तार्थपञ्चकमध्ये कस्यापि सम्बोधनम् । आ इति सम्बोधने पादपूरणे वा । ईः-लक्ष्मीः नः-अस्मभ्यं १ अस्माकं २ वा सौख्यं अददतददते स्म । इदं तथाविधपुरुषं प्रति लक्ष्मीवाञ्छकानां वचनम् । एवं नः अस्माकं सौख्यं अददत ? अपि तु न इति काका व्याख्येयम् । अर्थाः ३ । एवं भूमिश्मदिरारमोह- १५ ३ महानन्द ४ वाचिनाऽपि ईशब्देन समं अर्थत्रयं २ कार्यम् । जाताः १२ ॥ पूर्व ३ मी० १५॥ सर्वे० १००४॥
.
॥ एँ श्रीसर्वज्ञाय नमः ॥ अध पुनः प्रकारान्तरेण खण्डनया अर्थानाह. राजा अ! नोदद! ते सौख्यम् ॥ १-१४० ॥
अटति भतति घा अः, कायति कामयते वा का, भातीति भं-नक्षत्रं इति 'क्वचित्' (सिद्ध० ५-१-१७१) सूत्रे बृहद्वृत्तिव्याख्यानात् अटति-अतति-सततं गच्छति संसारे इति अः-प्राणी अर्थात् कश्चिन्नरादिः तत्सम्वोधनं हे अअथास्यैवासाधारणविशेषणमाहहे नोदद ! नोदनं नोदः-प्रेरणं भो त्वमिदं कार्य कुर्वित्यादिरूपः तं ददातीति नोददः । 'असाधारणविशेषणात् विशेष्यप्रतीतेः' इति न्यायात् एवंविधः कोऽपि प्रेरणादायका पुरुष-२५ विशेषस्तत्सं० हे नोदद ! ते-तुभ्यं राजा-नृपतिः सौख्यं-सुखं, ददात्विति शेषः । इदमाशीर्वचनम् । अत्र सप्तसु अर्थेषु नोददशब्दः प्रेरणादायको ज्ञेयः। हे अ! नोदद ! तेत्वया सौख्यं दीयतामित्यर्थात् अर्थप्रकरणाद् वा गम्यम् । अत्र युष्मच्छब्दस्य तृतीयैकवचने ते इत्यादेशः । यदुक्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org