________________
४४
अर्थरत्नावली
"वैपरीत्य विधानेन, नियमो नेष्यते बुधैः । अतः सर्वविभक्तीनां भवन्ति वसूनसादयः ॥ "
इत्यादि । तथा — “गेन्तव्या ते वसतिरलका नाम यक्षेश्वराणां " ( मेघदूते पू० श्लो० ७ ) इत्यादि महाकविश्रीकालिदास प्रयोगदर्शनाच्च । अथवा "ते मे त्वया मयाऽर्थे सातत्येsपि नित्य सहार्थयोरपि” इति अव्ययवृत्तिव्याख्यानात् ते इति त्वयाऽर्थे निपातः । एवमग्रेऽपि सदाऽनुसर्तव्यम् । किं० त्वया ? 'राजा' राजते इति राट्र तेन राजा २ । हे अ ! नोदद ! ते त्वया राजा सौख्यं नीयतामिति क्रियापदमर्धाक्षेपात् लभ्यम् । अत्र ' णीञ् प्रापणे' ( पा० धा० ९०१ ) इत्यस्य धातोर्द्विकर्मकत्वात् कर्मद्वयम् ॥ ३ ॥ हे अ ! नोदद ! ते - तव राजा सौख्यं ददात्विति शेषः । इदमप्याशीर्वचनम् ॥ ४ ॥ हे अनोदद ! ते-तव १० राजा - भवदीयो नृपः सौख्यं, दत्तामिति शेषः ॥ ५ ॥ हे अ ! नोदद ! ते तव राजा सौर्य वर्तते, सौख्यहेतुत्वात् सौख्यकारकत्वात् तदभेदकत्वेन सौख्यमेव, मुखचन्द्र इत्यादि कविशिष्यो(क्षो ?)दाहरणात् || ६ || हे अ ! नोदद ! ते तव राजा - भवदीयो नृपः सौख्यं साक्षात् सौख्यमेव, ममेति शेषः ॥ ७ ॥ एवं नञ्पूर्वेणापि प्रेरणादायकवाचिनोददैपदेन पूर्वविधिना सप्तार्थाः कार्याः । यथा - हे अ ! अनोदद ! - हे अप्रेरणादायक ! तें तुभ्यं राजा१५ नृपतिः सौख्यं-सुखं, ददातु इति शेषः । इत्यादि व्युत्पत्तिरर्ययोजना च स्वयं कार्या । सर्वे० ॥ १४ ॥
२०
नोदनं नोदः - प्रेरणं तं दयते - पालयतीति नोददः - प्रेरणापालकः । अत्र हि केनापि कस्मैचित् प्रोक्तम्- भो महानुभाव ! सुपात्राय दानं देहीति प्रेरणा चक्रे । ततस्तेनापि परमहितोपदेशत्वात् तथैवाकारितरां तस्मात् सोऽपि नोदद इत्युच्यते तत्सं० हे नोदद ! अ इति अत्रापि विशेष्यसम्बोधनपदं कार्यम् । यथा - हे अ ! हे नोदद ! - प्रेरणापालक ! तेतुभ्यं राजा - नृपतिः सौख्यं ददात्वित्यादि दिग्मात्रेणापि प्रेरणापाल कवचिनोददपदेन केवलेन नञ्समासपूर्वेण च पूर्ववत् १४ अर्थाः कार्याः । सर्वे० ॥ २८ ॥ अत्र राजा अ ! अनोदद ! ते सौख्यं इत्यत्र पदमध्ये वारद्वयं “ सवर्णे दीर्घः सह " ( सारखते सू० ५२ ) इति सूत्रं स्मरणीयम् । एवमग्रेऽपि सर्वत्र ज्ञातव्यम् ॥ २८ ॥
१ इदं तु तृतीयं चरणं, सम्पूर्ण पद्यं तु यथा
Jain Education International
सन्तप्तानां वमसि शरणं तत् पयोद ! प्रियायाः सन्देशं मे हर धनपतिक्रोध विश्लेषितस्य । गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या ॥७॥”
२ 'स्वया गन्तव्येत्यर्थः' इति श्रीमल्लिनाथाः टीकायाम् । ३-४ 'वाचिना द५०' इति ग-ध-पाठः ।
For Private & Personal Use Only
www.jainelibrary.org