________________
श्रीसमयसुन्दरगणिकृता
४५ नोदं-प्रेरणं विवक्षितरूपं द्यति-खण्डयतीति सोऽपि नोददः-प्रेरणखण्डकः । केनापि कस्मैचिदुक्तं यदुत भो देवानुप्रिय ! यत्यादिभ्यो दानं देहीति । ततस्तेनारुचित. तदीयवचनेन न कृतं तस्मात् सोऽपि नोददः । ततः हे अ! हे नोदद ! ते-तुभ्यं राजा सौख्यं ददातु इत्यादि प्रकारेण पूर्ववदत्रापि १४ अर्थाः प्रेरणखण्डकवाचिनोददपदेन केवलेन नसमासपूर्वण च कार्याः । सर्वे० ॥ ४३(२१) ॥
नोदनं नोदः-प्रेरणं तेन तत्र दो-दानं यस्य यस्मात् यस्मिन् वा सोऽपि नोददः, यो हि स्वयमदाता सन् परप्रेरणया दानं ददाति सोऽपि नोदद इत्युच्यते । ततः हे अ! हे नोदद ! ते-तुभ्यं राजा-नृपतिः सौख्यं ददातु इत्यादिना प्रकारेणापि १४ अर्थाः प्रेरणादानवाचिनोददपदेन केवलेन नपूर्वेण च कार्याः । अर्थयोजनाऽपि स्वयं कार्या । अत्र दो दानवाचको ज्ञेयः । यदुक्तं श्रीविश्वशम्भुनाममालायां (श्लो० ६७)
___"दो दाने पूजने क्षीणे, दानशौण्डे च पालके ।
देवे दीप्तौ दुराधर्षे” इत्यादि । सुधाकलशोऽप्याह (श्लो० २४-२५)
"दो दाने दायकेऽपि च ।
दाने दातरि दा केचित् विदुर्दा छेदवन्धयोः” इत्यादि । एवमग्रेऽपि यत्र कुत्रापि यदर्थवाचिनोदशब्दस्य कार्य स्यात् तत्र सर्वत्रापि एतस्मात् स्थलात् तदर्थवाची दशब्दोऽनुसर्तव्यः । सर्वे अर्थाः॥५६॥
नोदः-प्रेरणं तेन तस्मात् तस्मिन् वा दः-पूजनं यस्मात् यस्य यस्मिन् वा सोऽपि नोददः । यो हि परप्रेरणया गुर्वादीन् पूजयति (सोऽपि नोददः)। ततः हे नोदद! ! ते-तुभ्यं राजा-नृपतिः सौख्यं ददातु इत्यादि पूर्ववदत्रापि १४ अर्थाः प्रेरणापूजनवाचिना २० नोददपदेन केवलेन नपूर्वेण च कार्याः । सर्वे० ॥ ७० ॥
नोदे-प्रेरणे दः-क्षीणोऽशक्तो नोददः, यो हि प्रेरणं कर्तुमतीवाशक्तो वृद्धावस्था प्राप्त इत्यर्थः, तत्सं० नोदद! । अ! ते-तुभ्यं राजा सौख्यं ददातु इत्यादिना पुनरपि १४ अर्थाः प्रेरणक्षीणवाचिना नोददपदेन केवलेन नपूर्वेण च कायोः । सर्वे० ॥ ८४ ॥
नोदः-प्रेरणं तेन तस्माद् वा दो-दानशौण्डः, यो हि स्वयं कीकटः सन् परप्रेरणया २५ दानशौण्डो भवति सोऽपि नोदद इत्युच्यते, तत्सं० हे नोदद! अ!-प्राणिन् ! ते-तुभ्यं राजा-नृपतिः सौख्यं ददातु इत्यादि १४ अर्थाः प्रेरणादानशौण्डवाचिनोददपदेन केवलेन नपूर्वेण च कार्याः । सर्वे० ॥ ९८॥
नोदः-प्रेरणं तेन तस्माद् वा दः-पालकः,' यः सोऽपि नोददः । यो हि स्वयं परमपालयन् त्वममुं प्रतिपालयेति परप्रेरणया परं पालयति सोऽपि नोदद इत्युच्यते, ततस्तत्सं०३०
दरिद्रः । उक्तं च अभि० (का० ३, श्लो० २२)-दरिद्री दुर्विधो दुःस्थो दुर्गतो निःस्व-कीरूटी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org