________________
अर्थरत्नावली
[ अर्थाः १४१-६२३ ]
नोद ! अ ! - प्राणिन् ! इत्यादि विधिना १४ अर्थाः प्रेरणापालकवाचिना नोददपदेन के० नपू० कार्याः । सर्वे० ॥ ११२ ॥
नोदे - प्रेरणे दो- देवो यस्य सोऽपि नोददः । यस्य हि देवोऽपि कार्यावसरे त्वमेवं कुर्विति प्रेरणं करोति एवंविधो यः कोऽपि, अथवा नोदे-प्रेरणे द इव-देव इव यः सः ] ५ यो हि देववत् प्रेरणां विधत्ते तत्सं० हे नोदद ! अ ! - प्राणिन् ! इत्याद्यर्थाः १४ पूर्ववदत्रापि एतदर्थद्वयवाचिना नोददपदेन के० नञ्पू० कार्याः । सर्वे० ॥ १२६ ॥
( नोदः - प्रेरणं तेन तस्मिन् वा दो- दीप्तिर्यस्य सोऽपि नोददः । यो हि परप्रेरणया दीप्तिमानित्यर्थः । तत्सं० हे नोदद ! अ ! - प्राणिन् ! इत्यादि १४ अर्थाः । पुनरपि प्रेरणदीप्तिवाचिना नोददपदेन के० नञ्पू० कार्याः । सर्वे ० ॥ १४० ॥ ) अथ पुनः प्रकारान्तरेण अर्थानाह
राजा अ ! अनोदद ! ते सौख्यम् * ॥ १४१-६२३ ॥
१०
४६
अनः शकटं ददातीति अनोदः - शकटदाता तं अनोदं शकटदातारं प्रति ददातीति अर्धाक्षेपात् मूल्यं यच्छतीति अनोदद इत्युच्यते । अत्र हि केनचित् शकटार्थिना प्रोक्तं यदुत भो लोकाः ! यो मह्यं शकटं ददाति तस्मै अहं मूल्यं यथायोग्यं दद्मि । ततः केनापि १५ तस्मै शकटं दत्तं ततस्तेनापि तस्य मूल्यं दत्तम्, तस्मात् सोऽनोदद इत्युच्यते, तत्सं० हे अनोदद ! अ !- प्राणिन् ! ते तुभ्यं राजा-नृपतिः सौख्यं ददातु इत्यादि ७ अर्थाः शकटदातृदायकवाचिना अनोददपदेन कार्याः । सर्वे० ॥ १४७ ॥
अनः - शकटं ददातीति अनोदः, तमपि दयते - पालयतीति अनोददः । अत्रापि केनचित् पथिश्रान्तेन प्रोक्तम्- यो हि मम श्रान्तस्य निषीदनाय शकटं ददाति तमहं याव२० उज्जीवं पालयामि । यावदहं अयं चाजीवावस्तावदेनं धनधान्यद्रव्याद्यवष्टम्भदानेन निर्वाहयामि । ततः केनापि दत्तमनः तस्य ततस्तेनापि स पालितः, तस्मात् सोऽनोदद उच्यते तत्सं० हे अनोदद ! अ ! - प्राणिन् ! ते तुभ्यं राजा सौख्यं ददातु इत्यादि ७ अर्थाः शकट (दाट) पालकवा चिना अनोददपदेन कार्याः ॥ १५४ ॥
अनः शकटं ददातीति अनोदः - शकटदाता, तमप्यनोदं द्यति-खण्डयतीति अनो२५ ददः । अत्र हि केनापि कारणेन केनापि राज्ञा इति मर्यादा कृता यदुत यः कोऽपि कस्मैचिदपि शकटं दास्यति तमहं हनिष्यामि, ततोऽवगणिततद्वचनेन केनापि शकटं कस्मैचिद् दत्तं, ततो जातप्रबलकोपेन तेन स मारितः, तस्मात् सोऽप्यनोदद इत्युच्यते, तत्सं० हे अनोदद ! हे अ ! - प्राणिन् ! ते तुभ्यं राजा - नृपतिः सौख्यं ददातु इत्यादि अर्थाः ७ शकटदातृमारकवाचिना अनोददपदेन केवलेन कार्याः । सर्वे० ॥ १६१ ॥
१ '१४०' इति ख- पाठः । २ धनुश्चिह्नान्तर्गतः पाठः ख प्रतौ नास्ति । ३ 'अत्रापि' इति पाठः । ४ 'पालयते' इत्यधिकः ख- पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org