________________
श्रीसमयसुन्दरगणिकृता
अनः - शकटं दयते - पालयति इति अनोदः - शकटपालकः, तं प्रति अर्थाक्षेपात् द्रव्यादि ददातीति अनोददः । अत्रापि मर्यादा कृता-यो मम शकटं पालयति - रक्षति तस्याहं धनादिकं दद्मि । ततः केनापि शकटं पालितं, ततस्तेनापि तस्य धनादि दत्तं, तत् सोऽप्यनोदद उच्यते, तत्सं० हे अनोदद ! | हे अ ! हे प्राणिन् ! ते तुभ्यं इत्यादि ७ अर्थाः । सर्वे ० ॥ १६८ ॥
अनः- शकटं पालयतीति अर्थसामर्थ्याद् धातूनामनेकार्थत्वाद् वा बलाद् रक्षतीति अनोदः, तमपि द्यति - खण्डयति यः सोऽप्यनोददः । अत्र हि केनापि कस्यापि मन्दिरायां निजशकटं रक्षणाय मुक्तमासीत्, ततः कियत्कालान्तरेण शकटस्वामिना तत्पार्श्वाच्छकटं याचितं, ततस्तेन जातलोभेन रक्षितं, न तु दत्तम्, ततस्तेन रुष्टेन स मारितः, तस्मात् सोऽप्यनोदद उच्यते, तत्सं० हे अनोदद ! । हे अ ! - प्राणिन् ! इत्यादि ७ अर्थाः शकटर- १० क्षकमारकवाचिना अनोददपदेन केवलेन कार्याः । सर्वे० ॥ १७५ ॥
1
४७
अनः - शकटं द्यति - खण्डयति इति अनोदः, तमपि दयते - पालयतीति अनोददः । अत्रापि केनापि केलिप्रियेण प्रोक्तम्- भो बलिष्ठ ! यद्येतत् शकटं निजवलेन भङ्गि (भनक्षि ? ) तदाऽहं यावज्जीवं पूर्वोक्तप्रकारेण त्वां पालयामि, ततस्तेन शकटं भग्नं, ततस्तेनापि स पालितः, तस्मात् सोऽप्यनोदद उच्यते तत्सं० इत्यादि ७ अर्थाः शकटखण्डकपालकवा- १५ चिना अनोददपदेन केवलेन कार्याः । सर्वे ० ॥ १८२ ॥
अनः- शकटं द्यति - खण्डयति इति अनोदः - शकटखण्डकः, तमपि द्यति - खण्डय - तीति अनोददः । अत्रापि केनापि शकटप्रियेण निजद्वेषिणं प्रत्युक्तम् - यदि त्वं शकटं भक्ष्यसि तदाऽहं त्वामपि हनिष्यामि । ततस्तेन चटितप्रबलप्रकोपेन तच्छकटं भग्नम् । ततस्तेनापि स मारितः, तत्सं० हे अनोदद! | अ ! - प्राणिन् ! ते - तुभ्यं राजा - नृपतिः २० सौख्यं ददातु इत्यादि ७ अर्थाः शकटभञ्जकमारकवाचिना अनोददपदेन केवलेन कार्याः । सर्वे ० ॥ १८९ ॥
२५
अनः - शकटं ददातीति अनोदः, तस्मै दो- दानं यस्य सोऽप्यनोददः, तत्सं० है अनोदद ! । हे अ !- प्राणिन् ! ते-तुभ्यं राजा सौख्यं ददातु इत्यादि ७ पूर्ववत् कार्याः । अर्थयोजनादिकमपि स्वयं कार्यम् । सर्वे० ॥ १९६ ॥
अनोदः - शकटदायकः, तस्य तस्मै वा दः -पूजनं यस्य सोऽप्यनोदद इत्युच्यते, तत्सं॰ हे अनोदद ! इत्यादि ७ अर्थाः पूर्ववत् कार्याः । सर्वे० ॥ २०३ ॥
अनोदः - शकटदायकः स चासौ दः- क्षीणश्च अनोददः तत्सं० हे अनोदद ! हे अ ! - प्राणिन् ! इत्यादि अर्थाः पूर्ववत् कार्याः । सर्वे० ॥ २१० ॥
५
७
Jain Education International
१ 'मन्दिरे' इति ख- पाठः । २ 'मन्दिरं मन्दिरा कुटि:' इति श्रीशब्दरत्नाकरे (का० ४, श्लो० ३४ ) ( ३ 'पश्चात्' इति गध-पाठः ।
For Private & Personal Use Only
www.jainelibrary.org