________________
१६
अर्थरत्नावली
[ अर्थाः १०३-१११] जा अग्रे 'डुमिन्ट प्रक्षेपणे' (सिद्ध० धातुपाठे) जां मिनोति इति जामाता।'"जाया मिगः तृप्रत्ययः" । 'मिग्मीगः०' (सिद्ध० अ० ४, पा० २, सू० ८) इत्याकारः इति न्यासकारकृतव्युत्पत्तिदर्शनात् जा-पुत्री नः-अस्माकं असौख्यं ददते । यतः किं०? 'रा' रं-कामं अटति-अतति-गच्छतीति रा, कामाकुला इत्यर्थः । इदं कामाकुलत्वेन प्रकटी. ५ कृतविकारे पितॄणां वचनम् ॥१॥ एवं जा-पुत्री नो-न असौख्यं ददते, सौख्यं ददते इत्यर्थः । यतः किं० जा? 'रा' राजते षोडशशृङ्गाररचितवेषत्वेन सुन्दरदर्शनात् इति रा । इदं परहितावगुण्ठितनिजपुत्रीदर्शने जातसुखस्य पितुर्वचनम् ॥२॥ सर्वे ॥१०२॥
रा अ-जा नः ददते सौख्यम् ॥ १०३-१०४॥ न.विद्यते जा-पुत्री यस्यां सा अजा, एवंविधा रा-रमणी नः-अस्माकं सौख्यं ददते १.॥१॥ एवं हे नः!-नर! ममेति शेषः । असौख्यं ददते । इदमनिष्टेष्टपुत्रीदर्शनयोः पित्रोर्वचनम् ॥ २॥ अन्यथा वा स्वयमर्थयोजना कार्या ॥२॥ १०४ ॥
रा-जा-आ नो ददते सौख्यम् ॥ १०५-१०६ ॥ "रा रमा रमणी बाला" इति (विश्व०)वचनात् रा-रमा-लक्ष्मीः सा जा-पुत्री यस्य स राजः-समुद्रः, तजनकत्वात् । तस्य आ-शोभा राजा न:-अस्माकं सौख्यं ददते । १५ इदं तदधिकारिदेवानां वचनम् ॥१॥ एवं राजा-समुद्रशोभा हे नः!-हे नर! असौख्यं ददते । इदं अगस्तेर्वचनम् ॥ २॥ सर्वे ॥ १०६ ॥
रा-जा-अ नो ददते सौख्यम् ॥ १०७-१०८ ॥ रा-बाला-कन्या जा-पुत्री यस्याः सा राजा तां अटति-गच्छतीति राजाः एवंविधः कोऽपि जसः नः-अस्माकं सौख्यं असौख्यं च ददते । अर्ययोजना स्वयं कार्या ॥२॥१०८॥ २.
रा! जा-अनः ददते सौख्यम् ॥ १०९-११० ॥ जा-पुत्री तत्क्रीडार्थ अनः-शकटं जानः । हे राः!-हे नराः । ममेति शेषः, सौख्यं ददते असौख्यं च ददते । इदं लघुशकटिकाक्रीडमाननिजपुत्रीप्रेमाप्रेमवतोः पुंसोर्वचनम् ॥२॥ सर्वे ॥ ११० ॥
राय जा-आनः ददते सौख्यम् ॥ १९१ ॥ २५. जायाः-पुच्याः आनो मुखश्वासो जानः, ममेति शेषः, सौख्यं ददते । किं० जानः? 'राय' रस्य-हर्षस्य आय-प्राप्तिं करोतीति राय । णिजादिविधानेन रूपसिद्धिः पूर्ववत् । 'व्योः' (सिद्ध० अ० १, पा० ३, सू० २३) इति सूत्रेण यलोपोऽपि पूर्ववत् । इदं वल्लभ. पुत्रीकस्य पितुहुलापनसमये वचनम् ॥ १११ ॥
,
. 'जायाखन मिगः' इति ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org