________________
[ अर्थाः ११२-१३१] श्रीसमयसुन्दरगणिकता
रा अ-जा नो ददते असौख्यम् ॥ ११२ ॥ . - अस्य-कृष्णस्य जा-पुत्री अजा नो-न ददते असौख्यं, ममेति शेषः । किं० १ 'रा' राजते-शोभते इति रा-शोभमाना । अर्थयोजना स्वयं कार्या ॥ ११२ ॥ .
रा आ-जा नो ददते सौख्यम् ॥ ११३ ॥ आ-ब्रह्मा तस्य जा-पुत्री आजा-सरस्वती न:-अस्माकं सौख्यं ददते । किं. ५ आजा ? 'रा' शोभमाना ॥ ११३ ॥
राजा अः नः ददते सौख्यम् ॥ ११४-११५॥ “अः कृष्णः" इति श्रीअमर(कवि)वचनात् अ:-श्रीकृष्णो नः-अस्माकं सौख्यं . ददते । किं० ? 'राजा' स्वामी । इदं वैष्णवं वचः ॥ १॥ एवं असौख्यं ददते । इदं । कालनेमि-हयग्रीव-शकटादिदैत्यानां वचनम् ॥ २॥ ११५॥
राजा (राजा) अ-आ नः ददते सौख्यम् ॥ ११६-११७ ॥ __ अस्य-कृष्णस्य आ-शोभा न:-अस्माकं सौख्यं ददते । किं० १ 'राजा' राजते इति अचि आपि च राजा । सुन्दरेत्यर्थः। अथवा विशेषणद्वयं पृथक् रा-शोभमाना । पुनः किं० १ । अजा न जायत इत्यजा-शाश्वती, न तु अन्यजनशोभेव कृत्रिमा। इदं यशोदादीनां वचनम् ॥ १॥ एवं असौख्यं ददते । शेषं सर्व पूर्ववत् । इदं कृष्णवैरिणां १५ वचनम् ॥२॥ ११७ ॥
... राजा आ नो ददते सौख्यम् ॥ ११८-११९ ॥
"आः स्वयम्भूः" इति (विश्व० श्लो० ५) वचनात् आः-श्रीब्रह्मा नः-अस्माकं सौख्यं सुखं ददते । किं० आः ? 'राजा' स्वामी । एवं असौख्यं-दुःखं ददते । शेषं पूर्व. : वत् । इदं विधिभक्ताभक्तजनवचनम् ॥ ११९ ॥ . राजा आ-आ नो ददते सौख्यम् ॥ १२०-१२१ ॥
आ-ब्रह्मा तस्य आ-शोभा नः-अस्मभ्यं सौख्यं असौख्यं (वा) ददते । किं० १ 'राजा' सुन्दरा । शेषं पूर्ववत् । अर्थयोजना स्वयं कार्या ॥ १२१ ॥
राजा अः नो ददते सौख्यम् ॥ १२२-१३१ ॥ .. " शिवे केशवे वायौ, ब्रह्मचन्द्राग्निभानुषु” इति विश्वशम्भु(श्लो० ५)वचनात् २५ अः-ईश्वरः सौख्यं असौख्यं च ददते । किं० ? 'राजा' शोभमानः। शेषं पूर्ववत् । इदं
, 'ममेति शेषः' इत्यधिकः क-पाठश्चिन्तनीयः, तस्यापि सम्भवश्चेत् सरस्वती · नो-न असौख्यं ददते इति पाठः।
* अनेन चिह्न सूच्यते यदुत 'भसौख्य' इति संयोजना कार्याऽर्धान्तरे। २-३ 'भा मः' इति क-पाठचिन्तनीयः । ४ 'सानुषु' इति प्रत्यन्तरे ।
अर्थ. ३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org