________________
१४
अर्यरत्नावली
[अर्थाः १३२-२०४] माहेश्वराणां गजपूषादीनां वचनम् ॥२॥ एवं वायु-ब्रह्म-चन्द्रा-ऽग्निवाचकेनापि भशब्देन समं द्वौ द्वौ अौँ पृथक् पृथक् कार्यों । जाता अष्टौ ॥ ८॥ पूर्वोत्तद्वयमीलने जाताः॥१०॥ सर्वे० ॥ १३१॥
रा-अः जाः! नो ददते असौ खी अम् ॥ १३२-१३६ ॥
रा-श्री अः कृष्णः । रया-श्रिया उपलक्षितः अरा:-श्रीकृष्णः । “जस्तु जेतरि" इति वचनात् हे जाः!-हे जेतारः पुरुषाः! असौ-प्रत्यक्षः अं-परब्रह्म नो-न ददते? अपि तु ददते इति काका व्याख्येयम् ॥१॥ किं० १ 'खी' ज्ञानवान सुखवान् वा । एवं अर्हसिद्ध रशिवश्वाचकेनापि अशब्देन समं अर्थत्रयं कार्यम् । पूर्व(१)मीलने ॥ ४ ॥ सर्वे० ॥१५॥ एवं ब्रह्मवाचकेन अशब्देनापि समं अनयैव रीत्या एकोऽर्थः कार्यः । सर्वे ॥१६॥
र-अजाः नो ददते सौख्यम् ॥ १३७-१३८॥ अजन्ति-क्षिपन्तीति अचि अजा:-क्षेपकाः । रस्य-कन्दर्पस्य अजा:-क्षेपकाः राजा विशेषणाद् विशेष्यप्रतीतिरिति न्यायात् ईश्वराः। बहुवचनं च ईश्वरस्य बहुत्वख्यापना
धम् । यदुक्तं (महादेवस्तोत्रे श्लो० ३४)-"क्षितिजलपवनहुताशने"त्यादि । नः१५ अस्माकं सौख्यं असौख्यं च ददते । इदं तद्भकाभक्तजनवचनम् ॥२॥ सर्वे० ॥ १३८ ।। अथ पुनरपि प्रकारान्तरेण अर्थानाह
राजा नो ददते सौख्यम् ॥ १३९-२०४ ॥ राजा-नृपतिः न:-अस्मभ्यं अस्माकं (वा) सौख्यं-सुखं ददते । इदं सुरक्षितप्रजावचनम् ॥२॥ राजा-नृपतिर्नो-न सौख्यं ददते प्रजानामित्युक्तिसामर्थ्याद् गम्यते । इह केन२.चिद् वैदेशिकेन कीगत्र राजेति पृष्टः कोऽपीदमुवाच । अत्र नो प्रतिषेधको ज्ञेयः। यदवाचि एकाक्षयां "अमानोनाः प्रतिषेधे” इति । एवमग्रेऽपि सति प्रयोजने स्मर्तव्यम् ॥२॥ राजानो-नृपाः सौख्यं ददते, जनानामिति शेषः। एवमयेऽपि अर्थसामर्थ्यात् स्वेप्सितशेषशेषशब्दाकर्षः कर्तव्यः । अत्र नामक्रियाबहुवचनकृतोऽर्थभेदः॥४॥
शतार्थिकृतां शास्त्रादौ अपि क्वचित् क्वचित् नामवचनभेदात् कचित् कचित् क्रिया२५ वचनभेदात् क्वचित् कचित् काकुवचनभेदाच अर्थभेदो दृश्यते ततोऽत्र वह(थ)करणे
को दोषः । एतत् तु सर्व अत्रैव ग्रन्थान्ते वक्ष्यते । एवमेते चत्वारोऽप्यर्थाः काकुवचनेनापि कार्याः । यथा-राजा-नृपतिः न:-अस्मभ्यं सौख्यं ददते! अपि तु न ददते । इत्यादि पूर्वरीत्या कर्तव्याः। जाताः॥८॥
एते पुनरपि अष्टावप्यर्थाः असौख्यशब्देन समं योज्यन्ते ॥ यथा-राजा३. नृपतिः नः-अस्मभ्यं असौख्यं ददते । इदं करनिकरनिपीडितप्रजावधनन् । इत्यादि पूर्व
, 'एतयैव' इति ग-ध-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org