________________
[ अर्थाः २०५-२२० ] श्रीसमयसुन्दरगणिकृता पत् कार्याः । व्युत्पत्तिरपि पूर्ववत् । अर्थयोजना तु यत्र न कृता भवति तत्र सर्वत्र सुधीभिः स्वयं कार्या । मया विस्तरभयान लिख्यते । सर्वे० ॥ १६ ॥ ___एते .१६ अर्थाः नृपवाचकराजनशब्दस्य जाताः । एवं चन्द्रवाचिराजन्शब्दस्याप्येते १६ अर्थाः कार्याः। यथा-राजा-चन्द्रो न:-अस्मभ्यं सौख्यं ददते । इदं संयोगिन्याः स्त्रियाः चकोरस्य वा वाक्यम् । इत्यादि पूर्वविधिना ज्ञेयाः। अर्थयोजना स्वयं कार्या । ५ जाताः॥ ३२॥
एवं यक्षवाचिराजन्शब्दस्याप्येतेऽर्थाः (१६) कार्याः। यथा-राजा यक्षोनः-अस्मभ्यं सौख्यं ददते । इदं यक्षभक्तजनवचनम् । इत्यादि पूर्वविधिना कार्याः । जाताः॥४८॥ अत्र राजनशब्दो यक्षवाचको ज्ञेयः। यदवाचि श्रीकालिदासकविना
"तस्य स्थित्वा कथमपि पुरः 'केतकाधीनहेतो
रन्तर्वाष्पश्चिरमनुचरो राजराजस्य दध्यौ । मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः । कण्ठाश्लेषप्रणयिनि जने किं पुनरसंस्थे ? ॥१॥"
-मेघदूते (पू० श्लो० ३) इति । अर्थाः ॥ ४८॥
एवं यमवाचिराजन्शब्दस्याप्येतेऽर्थाः कार्याः । यथा-राजा-यमो न:-अस्मभ्यं सौख्यं ददते । इदं यमभक्तसेवकवचनं कविसमयमाश्रित्य । अथवा मरणसमये अतिदुःखिजनवचनं इत्यादि पूर्वविधिना ज्ञेयाः । अर्थयोजना स्वयं कार्या । जाताः ॥६४॥ पूर्वोक्त३८ (१) मीलने जाताः ॥ १०४ ॥ अर्थाः । सर्वमीलने च जाताः ।। २०४॥
राजा अनः ददते सौख्यम् ॥२०५-२२० ॥ राजा-नृपतिः सौख्यं ददते । किं० राजा? 'अनः' "नः पुनर्बन्धबुद्धयो" इति वचनात् न विद्यते बन्धो-बन्धनं यस्मात् यस्य यस्मिन् वा सोऽनः ॥ १॥ इदं धर्मिष्ठजनवधनम् । एवं राजा-नृपोऽसौख्यं ददते । किं० राजा ? 'अनः' बन्धनरहितः । व्युत्प. त्यादि पूर्ववत् । इदं पापिष्ठवचनम् ॥ २॥ राजा-नृपः सौख्यं ददते, ममेति शेषः । किं. १ 'अनः' नो-बुद्धः न नः अनः मूर्ख इति यावत् । इति मूर्खवचनम् । यतो हि २५ सदृशाः सदृशैः समं राजन्ते । यदुक्तम्
"हंसा रजति सरे, भमरा रजन्ति केतकीकुसुमे ।
चन्दणवणे भुअंगा, सरिसा सरिसेण रजति ॥१॥" इत्यादि ॥ ३ ॥ , 'कैतकाधामहेतोः', 'केतकाधानहेतोः' इति वा पाठः। २ छाया
सा रज्यम्ति सरसि अमरा रज्यन्ति केतकीकुसुमे । चन्दनवने भुजङ्गाः सरशाः साशेन रज्यन्ति ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org