________________
अर्थरत्नावली
[ अर्थाः २२१-२२८] राजा-नृपः असौख्यं ददते । किं० ? 'अनः' मूर्खः । इदं पण्डितस्य राजसेवकस्य वचनम् । यतो हि मूर्यो राजा दुःखेन आराध्यते । यदुक्तम् (श्रीभर्तृहरिमहर्षिभिः)
शक्यो वारयितुं जलेन दहनश्छत्रेण सूर्यातपो .
नागेन्द्रो निशिताङ्कन समदं दण्डेन गोगर्दभम् । व्याधिर्भपजसङ्ग्रहेण विविधैर्मन्त्रः प्रयोगैपिं ___ सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौपधम् ॥ १॥"
-(नीतिशतके श्लो० १०) इत्यादि ॥४॥राजा-नृपः सौख्यं ददते । ममेति शेषः । किंविशिष्टो राजा? । 'अन'
न विद्यन्ते नाः-नराः-अर्थान्निजनिकटवर्तिसेवका यस्य सोऽनः, रतकृते एकाकी इत्यर्थः । १. इदमन्यजनलज्जमाननवोढावचनम् । अत्र नशब्दो नरवाचकः। यदुक्तमेकाक्षयों (श्लो०७६) विश्वशम्भुना-"नो नरे च सनार्थे (2) च नोऽनर्थेऽपि प्रदर्श्यते(र्शने)” इति । इदमग्रेऽपि सर्वत्रानुस्मरणीयम् ॥५॥ राजा-नृपोऽसौख्यं ददते । प्रजानामिति शेषः । किं० राजा? 'अनः' नररहितः, एकाकीत्यर्थः। एकाकी हि राजा विपक्षान् निराकृत्य प्रजासुखदाने न
समर्थो भवेदित्यर्थयोजना । इदं विपक्षलक्षपीड्यमानवचनम् ॥६॥ राजा-नृपः सौख्यं ददते। १५ किं० राजा? । 'अनः' न विद्यते नः-अनर्थो यस्मात् यस्य यस्मिन् वाऽसौ अनः । इदं नीतिवाक्यम् ॥ ७ ॥राजा-नृपः असौख्यं ददते । किं० राजा? 'अनः' अनर्थरहितः। इदमनर्थप्रियजनवचनम् ॥ ८॥ एते अष्टावप्याः काकुवचनेनापि समं कायोः। यथा राजा सौख्यं ददते? अपि तु न ददते । किं०? 'अनः' वन्धरहितः । इत्यादिप्रकारेण
पूर्ववत् कार्याः । अर्थयोजनाऽपि स्वयं कार्या सर्वत्र । जाताः ॥ १६ ॥ पूर्वोक्त २०४. २० मीलने च जाताः सर्वेऽपि ॥ २२० ॥
राजाऽऽनः ददते सौख्यम् ॥ २२१-२२४ ॥ . राज्ञां राज्ञो वा आनः-मुखश्वासः सौख्यं ददते । इदं सम्भोगसमये रामावचनम्
॥१॥राजानो-राजमुखश्वासोऽसौख्यं ददते । इदं रतसमये रुष्ठरामावचनम् ॥२॥ . राज्ञां राज्ञो वा आनः-प्राणो राजानः सौख्यं १ असौख्यं २ ददते । इत्यादिप्रकारेण अर्थद्वयं २५ कार्यम् । अर्थयोजना स्वयं कार्या । जाताः ॥ ४॥ पूर्वोक्तसर्वमीलने जाताः ॥ २२४ ॥
राज-आ-नः ददते अः सौखी अम् ॥ २२५-२२८ ॥ "अः स्यादर्हति सिद्धे च" इति वचनात् अ-श्रीअर्हन्-जिनः अं-परब्रह्म ददते । जिनभक्तिभाजामित्यर्थः (ति शेषः?)। किं० अः? 'राजाना' राजते इति अचि राजं,
एवं(विधं) आ इति अतिशयितं नं-ज्ञानं यस्य स राजानः । पुनः किं ? 'सौखी' सुखाना३. परमानन्दरूपाणां समाहारः सौखं, तदस्यास्तीति सौखी । परमानन्दमय इत्यर्थः॥१॥ एवं
, 'भष्टाऽप्याः ' इति ग-घ-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org