________________
[ अर्थाः २२९- २४० ]
श्री समय सुन्दरगणिकृता
२१
शिव१केशव२सिद्ध ३वाचकेनापि अशब्देन समं पृथक् पृथक् अर्थत्रयं कार्यम् । जाताः ॥ ४ ॥ अत्र चित्रादित्वाद् विसर्गाभावभावौ न दोषाय । यदुक्तं रुद्रटालङ्कारटीकायां नमिसाधुना -
"विसर्जनीयाभावभावयोर्न विशेषः ।”
यथा
" द्विषतां मूलमुच्छेत्तुं राजवंशादजायथाः । द्विपद्भ्यस्त्रस्यसि कथं, वृकयूथादजा यथा ॥ १॥" इत्यादि । सर्वमीलने ॥ २२८ ॥
राजा अनः ददते सौख्यम् ॥ २२९ - २३२ ॥
राजा-नृपः अनः- शकटं ददते । सेवकानामिति शेषः । किं० अनः ? 'सौख्यं' १० सौख्य हेतुत्वात् सौख्यकारकत्वात् वा, कारणे कार्योपचारात् सौख्यम् । राज्ञां हि स्वसेवकेभ्यः सुखकारिशकटादिभिरपि अवष्टम्भदानयोग्यत्वात् ॥ १ ॥ राजा-नृपः अनः- शकटं ददते । किं० ? 'असौख्यं न विद्यते सौख्यं यस्मात् तदसौख्यम् । असौख्यकारकमित्यर्थः । अभक्तसेवकानां एवंविधस्यैव शकटादेर्दानयोग्यत्वात् ॥ २ ॥ एवं काकुवचनेनापि समं अर्थद्वयं कार्यम् । यथा राजा नृपः शकटं ददते ? अपि तु न । किं० अनः १ 'सौख्यं' १' सौख्य कारकम् । व्युत्पत्त्यादि पूर्ववत् । जाताः ॥ ४ ॥ सर्वे ॥ २३२ ॥
रांजा ! नः ददते असौख्यः ॥ २३३ - २४० ॥
नः-बुद्धः अवगततत्त्वः रां-लक्ष्मीं ददते । हे जाः ! - हे जेतारः ! पुरुषाः ! किं० नः १ ‘असौख्यः' आत्-अर्हतः सौख्यं यस्य सः असौख्यः, जैन इत्यर्थः । इदं जेतृपुरुषान् प्रति पाश्चिद् वचनम् ॥ १ ॥ एवं आत्-कृष्णात् सौख्यं यस्य सः असौख्यो - वैष्णवः ॥ २॥ २० तथा आत्-ईश्वरात् सौख्यं यस्य सः असौख्यः - माहेश्वरः ॥ ३ ॥ तथा आत्-सिद्धात् सौख्यं यस्य सः असौख्यः - सिद्धभक्तः ॥ ४॥ एवं आत्-वायोः वायुदे (दै ?) वताद् वा सौख्यं • असौख्यः- वाताभिलाषी वायुदेवताभक्तो वा ॥ ५ ॥ तथा आत्-ब्रह्मणः सौख्यं यस्य सः असौख्यः । यो हि ब्रह्मणः सकाशात् सौख्यं प्राप्नोति स एवंविधः ॥ ६ ॥ तथा आत् - चन्द्रात् सौख्यं यस्य सः असौख्यः । यस्य हि चन्द्रो देवः स एवंविध उच्यते ॥ ७ ॥ २५ तथा आत्-अग्नेः अग्निदेवात् सौख्यं यस्य सः असौख्यः - आग्नेयः ॥ ८ ॥ एतेऽष्टावप्यर्थाः जैनार्थवाचि असौख्यशब्दवत् पूर्ववत् कार्याः । यथा असौख्यो- वैष्णवो रां-लक्ष्मीं ददते । हे जाः ! - हे जे पुरुषाः । । किं० अ० १ 'नो' बुद्धोऽवगततत्त्वः इत्यादि अर्थ योजनाऽपि स्वयं कार्या । जाताः ॥ ८ ॥ सर्वे० ॥ २४० ॥
१ रुद्रटकृतकाव्यालङ्कारटीकायाम् इत्यर्थः । १ 'अथवा असौइयो - जैन इति कर्तृपदम्, किं० असोस्यः ३० नो दुः (?) इत्यादि' पाठः क - पार्श्वे सूचिता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org