________________
अर्थरत्नावली
[अर्थाः २४९-२५०] रा अ-ज! आं नो ददते अ-सौख्य ! ॥ २४१ ॥ 'अ-कृष्णः तस्माजो-जातः अजः-कन्दर्पः तस्य सम्वोधन हे अज! रा-लक्ष्मीः नः-अस्मभ्यं आं-लक्ष्मी सम्पदं ददते । किं० अज? 'असौख्य! आत्-कृष्णात् सौख्यं यस्य सः असौख्यः, अथवा अस्य-कृष्णस्य सुखं यस्मात् सः असौख्यः । पुत्राद्धि ५पितुः सुखं भवत्येवेति तत्सम्बोधनं हे असौख्य! । इदं कन्दर्पदेवं प्रति लक्ष्मीदेषतासेवकानां वचनम् ॥१॥२४१ ॥
रा अज! आ नो ददते सौख्यम् ॥ २४२-२४३ ॥ "एते चतुर्दशापि स्वराः पादपूरणभर्त्सनामन्त्रणनिषेधेषु" इति बृहन्यासवचनात् आ इति आमन्त्रणे पादपूरणे वा । हे अज!-हे कन्दर्प! व्युत्पत्त्यादि पूर्ववत् । रा१. लक्ष्मीदेवता नः-अस्माकं सौख्यं-सुखं ददते । इदमपि कन्दर्प प्रति लक्ष्मीदेवतासेवकानां घचनम् ॥ १॥ एवं असौख्यं ददते । शेषं सर्व उत्त्यादियोजनं पूर्ववत् । इदं रुष्टलक्ष्मीदेवताताडितरत्यादीनां वचनम् । अन्यथा वा यथा चेतसि चमत्कारता भवेत् तथा (योजना) कार्या ॥२॥ सर्वमीलने ॥ २४३ ॥
रा अ-ज! आं नो ददते अ-सौख्य! ॥ २४४ ॥ १५ अ-शिवः ततो जं-जन्म यस्य सः अजः-ईश्वरपुत्रो-विनायकस्तत्सम्बोधनं हे
अज! रा-लक्ष्मीदेवता नः-अस्मभ्यं आं-सम्पदं ददते । किं. हे अज? हे 'असौख्य'! आत्-ईश्वरात् सौख्यं यस्य सः, अथवा अस्य-शिवस्य सौख्यं यस्मात् सः असौख्यः तत्सं० हे असौख्य! । इदं विनायकं प्रति लक्ष्मीदेवतादीयमानसम्पदां लक्ष्मीसेवकानां वचनम् ॥ २४४॥ २०. रा अ-ज! आ नो ददते सौख्यम् ॥ २४५-२४८ ॥
आत्-वायोः जो-जातः अजः-हनूमान् तत्सं० हे अज! आ इति सम्बोधने पादपूरणे वा । रा-लक्ष्मीदेवता नः-अस्माकं सौख्यं असौख्यं च ददते । इदं हनुमन्तं प्रति लक्ष्मीदेवतादीयमानसौख्यानांतत्सेवकानाम् (वचनम् )॥१॥ अस्थिरतासारत्वमहामोहोत्पादकादिदोषदर्शनेन समुत्पन्नविरक्तभावानां तत्त्यागिनां ऋषिप्रभृतीनां च वचनम् ॥२॥एवं २५.आत्-चन्द्रात् जो-जातः अजः-बुधः इति व्युत्पत्त्या बुधवाचकेनापि अजशब्देन समं पूर्ववत् अर्थद्वयं कार्यम् । अर्थयोजनाऽपि स्वयं कार्या । जाताः ॥ ४ ॥ सर्वे० ॥ २४८ ॥
राज! अनोत्! अत्! अतेः सौख्यम् ॥ २४९-२५०॥ अनः-शकटं तदाकारस्वात् “उदेष्यति शकटं कृत्तिकोदयात्" इति दर्शनात् अनो -रोहिणी स्वयं अतति-गच्छतीति अनोत्-चन्द्रः तत्सं० हे अनोत्! त्वं सौख्यं अतेः३. गच्छेः । हे 'राज!' राजते-शोभते इति अचि राजः तत्सं० हे राज!। पुनः हे 'अत्।'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org