________________
[ अर्थाः २५१-२६१] श्रीसमयसुन्दरगणिकृता अतति-सततं गच्छति अम्बरतले ति किपि तल्लकिच अत तसं हे अत् ।। चित्रादि. स्यात् अत्र विसर्गलोपो न दोषाय । इदं ज्योत्स्नापानप्रीणितचकोरवाच्यम् ॥ १॥ एवं काक्वाऽपि एकोऽर्थः कार्यः । यथा हे अनोत् !-हे चन्द्र ! स्वं सौख्यं अतेः अपि तु न अतेः इत्यर्थः । शेष विशेषणादि पूर्ववत् । इदं चन्द्रकिरणनिकरनिपीडिताया वियोगिन्या वचनम् ॥ २॥ सर्वे ॥२५० ॥
राजा अ! आ नो ददते सौख्यम् ॥ २५१-२५२ ॥ आ इति आमन्त्रणे । हे !-हे कृष्ण! राजा-चन्द्र नः-अस्मभ्यं १ अस्माकं २ वा सौख्यं ददते । इदं रतसमये स्वप्रियनारायणेम समं रममाणगोपाङ्गनानां चन्द्रोद्योतम. धोतिते जगति स्वप्रियं प्रति वचनम् ॥ १॥ एवं हे अ!-कृष्ण! राजा-चन्द्रो मा-अ. स्मभ्यं १ अस्माकं २ वा आ इति पादपूरणे असौख्यं-कामपीडां ददते । त्वद्विरहे इति । अर्थाद् गम्यम् । इदमपि गोपाङ्गनावचनम् ॥ २॥ सर्वे० ॥ २५२ ॥
राजा अ! अ नो ददते सौख्यम् ॥ २५३-२५४ ॥ भइति सम्बोधने । हे अ! हे कृष्ण! राजा-यक्षो न:-अस्मभ्यं १ अस्माकं २ वा सौख्यं ददते । अत्र हि द्वारिकातो वहिनिर्गच्छता नारायणेन केऽपि यक्षाराधकार पृष्टाः-यदुत भोः कीरा यक्षः । ततस्ते इदमाहुः ॥२॥ सर्वे० ॥ २५४ ॥ १५
राजा अ! अनो ददते असौख्यम् ॥ २५५-२५६ ।। अ इति पादपूरणे । हे अ-हे कृष्ण! राजा-यक्षो न:-अस्मभ्यं १ अस्माकं २षा असौख्यं उपद्रवरूपं ददते । इदं कोपियक्षोपद्रुतप्रजानां स्वस्वामिनं विष्णुं प्रति वचनम् । सर्वे ॥ २५६ ॥
राजा अ! अ नो ददते सौख्यम् ॥ २५७-२५८ ॥ अ इति सम्बोधने । हे अ!-हे कृष्ण! राजा-यमो न:-अस्मभ्यं १ अस्माकं २ या सौख्यं अपहरणाभावरूपं ददते । त्वदीयप्रचण्डोद्दण्डप्रतापभीतो नः-अस्माकं भव. दीयमजानां अपहरणं (न) करोतीत्यर्थः । इदं यमापरिभूतप्रजावचनं स्वस्वामिनं प्रति ॥२॥ सर्वे० ॥ २५८ ॥
राजा अ! आ नो ददते असौख्यम् ॥ २५९-२६०॥ आ इति कोपे । हे अ!-हे कृष्ण! राजा-यमो नः-अस्मभ्यं १ अस्माकं २ वा असौख्यं ददते, अपहरणकरणात् । इदं कदाचित् समये कृतान्तोपद्रुतद्वारिकावासिलोकानां स्वस्वामिनं हरिं प्रति वचनम् ॥ २॥ सर्वे० ॥२६॥
राजा अ! अ नो ददते सौख्यम् ॥ २६१-२६२ ॥ आइति आमन्त्रणे हे! हे कृष्णराजा अर्थात् अन्यायी मृपा नो-न सौख्यं.
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,