________________
२४
अर्थरत्नावली
[ अर्थाः २६३-३०० ]
ददते ॥ १ ॥ तथा अ इति आमन्त्रणे । हे अ ! - हे कृष्ण ! राजा अर्थाध्यायी नृपः नो-न असौख्यं ददते, प्रजानामिति शेषः । इदं नीतिवाक्यद्वयं व्याख्याने सदसि नीतिशास्त्र विदा केनापि कोविदेन श्रीकृष्णमुद्दिश्योक्तम् ॥ २ ॥ सर्वे ० ॥ २६२ ॥
राजा अ ! अ नो ददते सौख्यम् ॥ २६३ - २६६ ॥
५
अ इति आमन्त्रणे । हे अ ! हे कृष्ण ! राजा - लोकरूढिवशात् घूकः नः - अस्मभ्यं १ अस्माकं २ वा सौख्यं ददते वामपार्श्वे दर्शितदर्शनत्वात् शब्दकरणत्वाद् वेति अर्थवशाद् गम्यम् २ | एवं असौख्यं ददते । दक्षिणपार्श्वे दर्शितदर्शनत्वात् शब्दकरणत्वाद् वेत्यपि अर्थवशाद् गम्यम् । इदं भिन्नभिन्नसमये दिग्विजयार्थ प्रस्थितानां कृष्णपुत्रादीनां वचनम् ॥ २ ॥ ४ ॥ सर्वे० ॥ २६६ ॥
ܪ
राः ज ! अ ! नो ददते सौख्यम् ॥ २६७ - २८२ ॥
अ इति आमन्त्रणे । हे अ ! - हे कृष्ण ! "राः कनके विभवे मेघे स्थानके ४" इति श्री अनेकार्थतिलकवचनप्रामाण्यात् राः - कनकं नः - अस्मभ्यं १ अस्माकं २ वा सौख्यं ददते । किं० अ ? हे ज ! - हे शत्रुजेतः ! । इदं श्रीकृष्णेन युष्माकं किं सुखदायकमिति प्रश्नितानां स्वर्णाभरणवाञ्छकानां गोपाङ्गनानां कृष्णं प्रति वचनम् ॥ २ ॥ एवं असौख्यं १५ ददते । शेषं पूर्ववत् । इदं तद्विपरीतानां वचनम् ॥ २ ॥ सर्वे० ॥ ४ ॥
एवं ( रा :-) विभवो द्रव्यं ( अस्मभ्यं अस्माकं वा ) सौख्यं ददते । इदं द्रव्यार्थिनां श्रीकृष्णं प्रति वचनम् || २ || एवं असौख्यं ददते । इदं प्रव्रज्यासमये संसारविरक्तानां द्वारिकावासिनां श्रीकृष्णं प्रति जनानां केषाश्चित् वचनम् ॥ २ ॥ ४ ॥ पूर्वमी ० ॥ ८ ॥
एवं राः - मेघः नः - अस्मभ्यं १ अस्माकं २ वा सौख्यं -सुखं ददते । इदं श्रीकृष्णां १० प्रति कर्षुकाणां वचनम् ॥ २ ॥ एवं असौख्यं ददते । इदं क्षेत्रे धान्यनिष्पत्तिसमये कर्षु - काणामेव वचनम् ॥ २ ॥ ४ ॥ पूर्व ८ मीलने ॥ १२ ॥
एवं राः - स्थानम् - आश्रयः सौख्यं ददते । इदं स्थानार्थिनां वचनम् ॥ १ ॥ एवं असौख्यं ददते । इदं तद्विपरीतानां वचनम् ॥ २ ॥ ४ ॥ पूर्वमीलने ॥१६॥ सर्वे० ॥ २८२ ॥ राज ! अ! आ नो ददते सौख्यम् ॥ २८३-३०० ॥
इति आमन्त्रणे । हे अ ! हे कृष्ण ! रा- लक्ष्मीः नः - अस्मभ्यं १ अस्माकं २ वा सौख्यं ददते । किं० अ ? हे ज ! हे शत्रुजेतः ! इदं लक्ष्मी सन्तोषितनिजदासदासीप्रभृतीनां कृष्णं प्रति वचनम् ॥ २ ॥ एवं असौख्यं ददते । इदं परस्परं कलिसमये लक्ष्मीसपत्नीनां राधा-रुक्मिणीप्रभृतीनां वचनं २ श्रीकृष्णं प्रति । पूर्वमीलने ॥ ४ ॥ एवं रा - रमणी नः - अस्मभ्यं १ अस्माकं २ च सौख्यं असौख्यं च ददते । इदं कृष्णं ३० प्रति प्रमदार्थिनां प्रमदाविरक्तानां च वचनम् । ( ४ ) पूर्वमीलने ॥ ८ ॥ सर्वे० ॥ ३०० ॥
Jain Education International
For Private & Personal Use Only
•
www.jainelibrary.org