________________
श्री समयमुन्दरगणिकृता
राजा अ ! आ नो ददते असौख्यम् ॥ ३०१-३०३ ॥
आ इति पादपूरणे । हे अ ! - हे कृष्ण ! रां-लक्ष्म जस्यति - धातूनामनेकार्थत्वात् नाशयतीति राजा - आपद् नः - अस्मभ्यं १ अस्माकं २ वा असौख्यं दुःखं ददते । इदं आपदा पीडितानां जनानां कृष्णं प्रति वचनम् ॥ २ ॥ एवं नो-न सौख्यं ददते अर्थयोजना पूर्ववत् ॥ १ ॥ पूर्वमी० ॥ ३ ॥ सर्वे ० ॥ ३०३ ॥
राजा अ ! आ नो ददते सौख्यम् * ॥ ३०४-३०७॥
[ अर्थाः ३०१-४३३ ]
रां - रमणी जस्यति - नाशयति- मारयतीति उप्रत्यये आपि च राजा - स्त्रीमारिका काचिदेवंविधा स्त्री । आ इति कोपे । हे अ ! हे कृष्ण ! नः - अस्मभ्यं १ अस्माकं २ वा सौख्यं १ असौख्यं चे २ ददते । अर्थयोजना स्वयं कार्या ॥ ४ ॥ सर्वे० ॥ ३०७ ॥ र-अजा अ ! अ नो ददते सौख्यम् ॥ ३०८-३११ ॥
अजति - क्षिपतीति अजा । रस्य कामस्य अजा- -क्षेपका राजा - शीलवती स्त्री । हे अ ! - हे कृष्ण ! अ इति आमन्त्रणे । नः - अस्मभ्यं १ अस्माकं २ वा सौख्यं १ अंसौख्यं वा २ ददते । इदं शीलवल्लभानां तद्विपरीतानां च श्रीकृष्णं प्रति वचनम् ||४|| सर्वे० ३११ राजा अ! आ नो ददते सौख्यम् * ॥ ३१२ - ३७२ ॥
२५
१ 'सौख्यम्' इत्यर्थान्तरे । २ 'वा' इति पाठान्तरम् ।
अर्थ. ४
Jain Education International
आ इति आमन्त्रणे । हे अ ! "अः शिवे केशवे वायौ, ब्रह्म-चन्द्राऽग्नि-सा (भा) नुषु ” १५ इति विश्वशम्भु (श्लो० ५) वचनात् हे ईश्वर ! राजा - चन्द्रः नः - अस्मभ्यं १ अस्माकं २ च सौख्यं ददते । इदं रतसमये स्वप्रियेश्वरेण समं रममाणपार्वतीवचनं चन्द्रोद्योतप्रद्योतिते जगति स्वप्रियं प्रति ॥ २ ॥ एवं हे अ ! - हे ईश्वर ! राजा-चन्द्रो नः - अस्मभ्यं १ अस्माकं व २, आ इति पादपूरणे, असौख्यं - कामपीडां ददते । त्वद्विरहे इति अर्थाद् गम्यम् । इदमपि पार्वतीवचनम् ॥ २ ॥ सर्वे ० ॥ ४ ॥ अत्र 'नः' इति बहुवचनं आत्मनो गौरवख्यापना- २० र्थम् । एवं यथा पञ्चाशदधिकद्विशतार्थेभ्यः २५० पश्चाद् ये एकषष्टिरर्थाः विष्णुवाचकेन अशब्देन समं कृताः, तथा शिववाचकेनापि अशब्देन समं एकषष्टिरर्थाः कार्याः । विशेष्यस्य भिन्नत्वाच्च अर्थभेदः स्फुट एव । मया तु ग्रन्थविस्तर भीत्या लिखनस्य एकपद्धत्या अल्पभेदत्वाच्च न विविच्य लिखिताः । पृथग्भेदान्वेषिभिः विद्वद्भिः स्वयं कार्याः । एवं अर्थयोज - नाऽपि यथासम्भवं स्वयं कार्या सुधीभिः । ततो जाताः ॥ ६१ ॥ पूर्वोक्ताः ॥ ३११ ॥ २५ मीलने च जाताः ॥ ३७२ ॥
राजा अ ! आ नो ददते सौख्यम् ॥३७३-४३३ ॥
अस्य कृष्णस्य अपत्यं इ:- कामः तस्यापि अपत्यं अः - अनिरुद्धः । ततः हे अ !
For Private & Personal Use Only
M
१०
www.jainelibrary.org