________________
अर्थरत्नावली
[अर्थाः ४३४-४४३] हे अनिरुद्ध ! आ इति सम्बोधने, राजा-चन्द्रः नः-अस्मभ्यं १ अस्माकं २ वा सौख्यं ददते । इदमपि रतसमये स्वप्रियेण समं रममाणाया उषाया वचनं अनिरुद्धं प्रति ॥२॥ एवं असौख्यं ददते त्वद्विरहे इति शेषः। शेषं पूर्ववत् ॥ २॥ ततः॥४॥ अथवा नो-न
असौख्यं ददते, सौख्यं ददते इत्यर्थः। तथा नो-न सौख्यं-सुखं ददते, दुःखं ददते इत्यर्थः। ५ शेषं पूर्ववत् । एवं अनिरुद्धवाचिनाऽपि अशब्देन समं पूर्वरीत्या एकपष्टिरी ज्ञेयाः। तद्दिक् प्रदर्शिता । अर्थयोजनाऽपि स्वयं कार्याऽऽर्यैः । पूर्वोक्त३७२मीलने जाताः सर्वेऽपि ॥ ४३३ ॥ तथाऽत्र वायु-चन्द्रा-ऽहंद्वाचिनाऽपि अशब्देन समं बहवोऽर्था अनया रीत्या उत्पद्यन्ते, परं मया प्रयासबाहुल्यात् परस्परं स्तोकभेदत्वाच्च उपेक्षिताः । जाताः सर्वे॥४३३॥
र-अजा नो ददते सौख्यम् ॥ ४३४-४३७ ॥ अजन्ति-क्षिपन्तीति अचि अजाः, ततो रस्य-कामस्य अजा:-क्षेपकाः राजाःकामहन्तारोऽर्थाद् विशेषणाद् विशेष्यप्रतीतिरिति न्यायाद् वा यतयः नः-अस्मभ्यं १ अस्माकं २ वा सौख्यं-सुखं ददते । यतो हि
"सुरासुरनराः सर्वे, येनैते स्ववशीकृताः।
निर्जितो यैः स कामोऽपि, ते यतीशाः सुखप्रदाः ॥१॥" १५ इत्युक्तत्वात् यतयः सुखप्रदा एव स्युः ॥ एवं असौख्यं ददते । इदं कामिनां वचनम् ॥२॥ पूर्वोत्तमीलने सर्वे० ॥ ४३७ ॥
- राजा! नो ददते सौख्यम् ॥ ४३८-४३९ ॥, __हे राजाः!-हे यतयः! । व्युत्पत्त्यादि पूर्ववत् । नो-बुद्धः अवगततत्त्वोऽर्थात् जिनः सौख्यं-सुखं ददते, अमृतस्राविवचनेन प्रीणयतीत्यर्थः । अस्माकमिति शेषः । इदं भगवद्२० व्याख्यानश्रवणानन्तरं अत्यन्तं तुष्टमनसो भव्यस्य यतीनुद्दिश्य वचनम् ॥१॥ एवं असौख्यं ददते अभव्यस्य, अन्यथा वाऽर्थयोजना कर्तव्या ॥२॥ सर्वे० ॥ ४३९ ।।
राज! अनो ददते सौख्यम् ॥ ४४०-४४१ ॥ - हे राज!-हे यते ! अनः-अवुद्धः सौख्यं ददते । इदं मूर्खाणां वचनम् ॥१॥ एवं असौख्यं ददते । इदं पण्डितजनवचनम् ॥ २॥ सर्वे० ॥ ४४१ ॥ २५
राजा! नो ददते सौख्यम् ॥ ४४२-४४३ ॥ हे राजाः!-हे यतयः!। व्युत्पत्त्यादि पूर्ववत् । “नस्तु संविदि" इति अनेका. थैतिलकोकेः नो-ज्ञानं सौख्यं ददते । अस्माकमिति अर्थवशाद् गम्यम् । इदं यतीन् प्रति ज्ञानार्थिनां वचनम् ॥ १॥ एवं असौख्यं ददते मूर्खतां कामयमानानाम् ॥२॥ सर्वे०॥४४३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org