SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ [ अर्थाः ४४४-४६५ ] श्रीसमय सुन्दर गणिकृता राज ! अनो ददते सौख्यम् ॥ ४४४-४४५ ॥ हे राज ! - हे यते ! नो-ज्ञानं तद्विरुद्धं अनः - अज्ञानं सौख्यं ददते । अस्माक मिति शेषः । इदं यतीन् प्रति अज्ञानं कामयमानानां वचनम् ॥ १ ॥ एवं असौख्यं ददते । इदं ज्ञानार्थिनां वचनम् ॥ २ ॥ सर्वे ० ॥ ४४५ ॥ राजा ! नो ददते सौख्यम् * ॥ ४४६ - ४४७ ॥ "नः पुनर्बन्धबुद्धयोः” इति वचनात् नो-बन्धोऽर्थात् कर्मणां बन्धः । हे राजाः !हे यतिनः ! नः - अस्माकं सौख्यं ददते ? अपि तु न इति काक्वा व्याख्येयम् ॥ १ ॥ अथवा सौख्यं ददते । अर्धयोजना यथा चेतसि चमत्कारमादधाति तथा स्वयमेव विधेया । एवं असौख्यं ददते । इदं कर्मवन्धभीतानां नराणां यतीन् प्रति वचनम् ॥ २ ॥ सर्वे० ॥ ४४७ ॥ १० राज ! अनो ददते सौख्यम् ॥ ४४८ - ४४९ ॥ हे राज ! - हे ते ! नो- बन्धस्तद्विरुद्धो अनः - अबन्धः, कर्ममोक्ष इत्यर्थः । अस्माकं सौख्यं ददते । इदं मुक्तिकामानां यतिं प्रति वचनम् ॥ १ ॥ एवं असौख्यं ददते । इदं तद्विपरीतानां वचनम् ॥ २ ॥ सर्वे० ॥ ४४९ ॥ राजा ! नो ददते सौख्यम् ॥ ४५० - ४५१ ॥ २७ "नो नरे चं सनाथे च, नोऽनर्थेऽपि प्रदर्शने” इति विश्वशम्भु (श्लो० ७६ ) वचनात् हे राजाः ! - हे यतयः ! नः - अनर्थः अस्माकं सौख्यं ददते । इदं यतीन् प्रति प्रतिबोधसमये धीवरादीनां वचनम् ॥ १ ॥ एवं असौख्यं ददते । इदं अनर्थ भीतचेतसां चतुराणां वचः ॥ २ ॥ सर्वे ० ॥ ४५१ ॥ र-अज-अ नो ददते सौख्यम् ॥ ४५२ - ४५५ ॥ रः-कामः-कामदेवः । अजो - हरः - ईश्वरदेवः । अः कृष्णः । ततो रश्च अजश्च अश्व राजाः काम- शिव-विष्णुसंज्ञकास्त्रयोऽपि देवाः नः - अस्मभ्यं १ अस्माकं २ वा सौख्यं ददते । इदं (तत्) तद्भवानां वचनम् ॥ १ ॥ एवं असौख्यं ददते । इदं तद्विपरीतानां वचनम् ॥ २ ॥ सर्वे० ॥ ४ ॥ पूवोक्तमी० ॥ ४५५ ॥ र-अ-अजाः ! नो ददते सौख्यम् ॥ ४५६-४६५ ॥ Jain Education International For Private & Personal Use Only १५ २५ हे राजाः ! - हे काम शिव-विष्णुदेवाः ! नो-बुद्धः १ ज्ञानं २ बन्धः ३ अनर्थो ४ वा अस्माकमिति गम्यम्, सौख्यं १ असौख्यं २ वा ददते । अर्ययोजना स्वयं कार्या १ 'नः सनाथे च' इति प्रत्यन्तरे । २० www.jainelibrary.org
SR No.002921
Book TitleAnekarth Ratna Manjushayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy