________________
[अर्थाः ९५-१०२] श्रीसमयसुन्दरगणिकृता
रा-अ-ज-अः नो ददते असौ खी अम् ॥ ९५॥ रा-श्रीः अ-विष्णुः, सदृशनामत्वात् श्रेयांसपिता । राजाऽपि विष्णुः, तस्मात् जोजातोऽजः, (रया-) श्रिया उपलक्षितोऽजः श्री(रा)अजः-श्रीश्रेयांसः स चासौ अ-अर्हन राजाः-श्रीश्रेयांसतीर्थकृत् । असौ-अयं नः-अस्माकं अं-परब्रह्म ददते । किं०? 'खी' खे -सुखे परमानन्दरूपे तिष्ठतीत्येवंशीलः खी ॥ १३ ॥ सर्वे ॥ ९५ ॥
र-आ-ज-अः नः ! ददते सौख्यम् ॥ ९६ ॥ "रेश्च कामे तैक्ष्ण्ये विश्वानरे नरे । रामे वज्रे च शब्दे स्यात्" इति सुधाकलश(श्लो० ३६-३७)वचनात् रेण-वज्रेण लाञ्छनभूतेन आयाः-श्रियाः। “जस्तु जेतरि जनने" इति विश्वशम्भुवचनात् जो-जननं यस्य स राजा-श्रीधर्मनाथो जिनः, वज्रलाभ्छनत्वात् । ततो राजश्चासौ अश्च-अर्हन् राजाः । हे नः!-हे नर! सौख्यं-सुखं ददते १. ॥ १५॥ सर्वे ॥ ९६ ॥
र! अजाः! नोदत् ! अतेः सौख्यम् ॥ ९७ ॥ हेर!-हे नर! अजेन-छागेन लान्छनभूतेन आ-श्रीः यस्य सः अजाः-श्रीकुन्थुनाथः, छागवाहनत्वात् तत्सं० हे अजाः! त्वं सौख्यं अतेः-गच्छेः । किं० १ 'नोदत् !' नो-न दत् !-क्षयकृत् ! प्राणिनामिति शेषः, षड्जीवनिकायवत्सलत्वात् 'तसू[७] दसूच् उपक्षये' १५ (सिद्ध० धातुपाठे) क्विपि रूपम् । चित्रादित्वात् विसर्गलोपो न दोषाय ॥१७॥ सर्वे ॥१७॥
रा-ज-अः नो ददते असौख्यम् ॥ ९८॥ रा-पतिरथन्यायेन पद्मा ततो रायां-पद्मायां पद्मानाम्न्यां मातरि जो-जाप्तो राजः स चासौ अ:-अहेन राजाः-श्रीमुनिसुव्रततीर्थकृत् असौख्यं नो-न ददते ॥२०॥ सर्वे ॥ ९८ ॥
२. अथ पुनः प्रकारान्तरेण विविधानांनाह
राजा अः नो ददते सौख्यम् ॥ ९९-१०० ॥ ___ "अः स्यादर्हति सिद्धे च" इति वचनात् अः-सिद्धो न:-अस्माकं सौख्यं ददते । किं० अः ? 'राजा' राजते-सिद्धिशिलायां दीप्यते इति राजा । इदं संसारविरक्तजनवचनम् । एवं असौख्यं ददते । इदं संसारासक्तिरक्तनरवचनम् । शेषं सर्व पूर्ववत् । इत्यर्थ-२५ द्वयम् । सर्वमीलने ॥ १०॥
राजा नो ददते असौख्यम् ॥ १०१-१०२॥ जायते इति जा-पुत्री । 'क्वचित्' (सिद्ध० अ० ५, पा० १, सू० १७१) डप्रत्यये , 'रः कामे तीक्ष्णे वैश्वानरे भरे' इति पाठान्तरम् ।
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only