________________
१४
अर्थरत्नावली
[अर्थाः ९२-९४] तत्र जातत्वेन गच्छतीति आजानोऽत्-श्रीअजितनाथो द्वितीयो जिनः, रोहिणीनक्षत्रजातत्वात् । ततः हे आजानोत्! ते-तव रा-शोभा, भवत्विति शेषः । हे अद! :-अग्निस्तद्वत् दो-दीप्तिर्यस्य सोऽदः, पीतवर्णत्वात् अजितस्य । हे आसौख्य! आ-सामस्त्येन सौख्यं-सुखं यस्मादसौ आप्तौख्यः, तत्सं० हे आसौख्य! चित्रत्वादनुस्वारलोपो न दोषाय। ५ तथा अत्र ते. आसौख्यम् इत्यत्राकारलोपः। 'एदोतः पदान्तेऽस्य लुग्' (सिद्ध० अ० १, पा० २, सू० २७) इत्यनेन सूत्रेण मतान्तरमाश्रित्य यथा कुमारसम्भवे महाकाव्ये"वन्धुप्रियां वन्धुजनो [आजुहाव तां पार्वतीत्याभिजनोऽऽजुहाव"। महाभारतेऽपि"कुरवोऽऽत्महितं मन्त्रम्" । अन्यत्रापि-"निर्मापितोऽऽमराज्ञा, गोपगिरौ जयति वीरजिनः" । एवमनेकशः स्थलानि विलोकनीयानि । अथवा हे असौख्य! न विद्यते सौख्यं१० सांसारिकसुखं यस्य सः असौख्यस्तत्सं० हे असौख्य ! इति । द्वितीयजिनवर्णनमाश्रित्यार्थ उक्तः । सर्वे ॥ ९१॥
राजा नो ददते सौख्यम् ॥ ९२॥ राजा-चन्द्रस्तेनोपलक्षितः अ-अर्हन् राजा-चन्द्रप्रभजिनोऽष्टमः, चन्द्रलाञ्छनत्वात् । अथवा राजा-चन्द्रस्तेन लाञ्छनभूतेन आ-शोभा यस्य स राजा-चन्द्रमभो १५ न:-अस्माकं सौख्यं ददते ॥८॥ सर्वे ॥९२ ॥
रा-ज-आनः अददत इ सौख्यम् ॥ ९३ ॥ "रा रमा रमणी बाला" इति वचनात् पङ्किरथन्यायेन रा-रामा ततो जं-जन्म यस्य स राजः-श्रीसुविधिः, रामामातृजातत्वात् तस्य आनो-मुखश्वासो राजानः। इ इति सम्बोधने । सौख्यं-मनःसन्तोपं अददत, ददौ इत्यर्थः । इदं बाल्यावस्थायां खेलना२० दिसमये रामामात्रादिजनवचनम् ॥९॥ सर्वे ॥ ९३ ॥
___रा जानो ! ददते सौख्यम् ॥ ९४ ॥ ___आ-लक्ष्मीस्तत्पर्यायत्वात् या। ततः जपूर्वा आ जाआ, जाया इत्यर्थः। ततो जायानाम्नी वासुपूज्यमातेत्यर्थः । तस्याः "नुः स्तुतौ” इति वचनात् नुः-स्तुतिर्यस्मात् स
जानु:-श्रीवासुपूज्यः । उत्तमपुत्राद्धि मातापित्रोः स्तुतिर्लोके भवत्येव । ततस्तत्सं० हे २५ जानो!-हे श्रीवासुपूज्य! भवानिति अध्याहारे । सौख्यं ददते । किं० भवान् ? 'राः' "रं : जले रङ्गवेगयोः" इति (विश्व०)वचनात् रं-रङ्गं अटति-गच्छति-प्रामोतीति राः ॥१२॥
सर्वे ॥ ९४॥
... निर्णयसागरमुद्रणालये मुद्रिते पुस्तके (स.,लो. २६)तु निम्नलिखितः पाठः
"तां पार्वतीत्या भिजनेन नाम्ना बन्धुप्रियां बन्धुजनो जुहाव ।" ३. २ भष्टमतीर्थङ्करसूचकोऽकोऽयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org