________________
१३१
श्रीजिनप्रभसूरिविरचिता पुनस्तपोनियमादिक्रिया । “आभा राढा विभूषा श्रीः” इति हैमनाममाला ( का०६, श्लो० १४८) । इयं च देहलालना । 'मल्लीपासो' मयि लीयते-सम्बध्यते मल्ली पाश इव पाशः-कर्मवन्धः । तथा चार्षम्
"विभूसावत्तियं भिक्खू कम्मं बंधई" (दशवैकालिके अ. ६, श्लो. ६६) इत्यादि । ५ इति धर्मकथानुयोगः ॥ ३ ॥"
अथ द्रव्यानुयोगः-- 'सुबयनेमीकाला' इति पूर्ववत् उत्पादव्ययध्रौव्यात्मकं सत् तथैव प्रतीयमानत्वात् इत्यस्य पादस्यार्थः । एतच्चायं प्रत्यभिधीयते तं प्रतिपादयति-हे 'पउमाभवासुपुजा' 'प'
इति परमेष्ठी-ब्रह्मा, उमाया 'भ' इति भर्ता उमया वा भाति उमाभ:-रुद्रः, 'वासु' इति १० वासुदेवः, ते पूज्या यस्य स तथा, तस्य सम्बोधनं 'हे पउमाभवासुपुजा !' गोयमा! इति
तदामन्त्रणे सो अदन्तस्य आर्षे आत्वम् , स च नैयायिको वैशेषिको वा, हरि-हर-ब्रह्मणामेकमूर्त्तित्वात्। तथा हे 'रत्ता!' रक्तः रक्तपटो-वौद्धः, तथा चागमे-“तवन्निय'त्ति ( ) तन्नामतृतीयवर्णो लोहितस्तद्वरणपटयोगात् प्राकृते तवन्निओ तस्यामन्त्रणं हे रत्ता!।
तथा 'स' इति साङ्ख्यः, तथाऽकारप्रश्लेपात् असिः-खड्गः पुष्पदन्तौ-सूर्यचन्द्रौ पौष्प१५ दन्ताः- तद्वंशजत्वात् राजन्याः, तेषां हि मूलतो द्वावेव वंशो सूर्यश्चन्द्रश्च, ततो
ऽसिप्रधानाः पौष्पदन्ताः असिपौष्पदन्ताः-युद्धप्रवृत्ताः क्षत्रियाः, 'शशू हिंसायाम्' 'इकिस्तिव् स्वरूपार्थे' (सिद्ध० ५-३-१३७) इति शशिः-हिंसा यज्ञादो पशुपक्षिवृक्षौपध्यादिशशिना. गां-स्वर्ग राति-यजमानेभ्यो ददाति तथोपदेशदानात् ससिगोरा-मीमांसकाः ।
अथवा शशिः-हिंसा तद्विपयां गां-वाचं उपदेशं वा राति शशिगोरः-आलम्भ्याध्या२० यार्थव्याख्याता असिपौष्पदन्त इघ हिंसापरायणत्वात् यः शशिगोरस्तस्यामन्त्रणम् । ततश्च भोः परवादिन् ! 'पास' पश्य -अन्तस्तत्वेन त्रयात्मकं वस्तु विलोकय । कथम्भूतः सन् पश्य? 'ओमल्ली' 'ओम्' इत्यभ्युपगमे, तं अल्लियइ-आश्रयति 'ओमल्ली', स्याद्वादमभ्युपगम्य इत्यर्थः । भो भो एकान्तवादिनो भवतां 'पियंगाभा' वर्तते प्रिया प्रेयसी
तस्या अङ्गानि स्तन-वदन-नयन-जघनादीनि तेषां आभा सादृश्यम्-दृष्टान्त इत्यर्थः। २५ यथाहि-रागिणः प्रेयसीनां नाम तथा रूपाण्यङ्गानि कनककलश-पूर्णेन्दु-नलिनदल-चक्रादिरूपतया स्वानुरागमात्रात् मन्यन्ते तथा भवन्तोऽप्यनन्तधर्मात्मकतया सदसन्नित्या. नित्यामिलाप्यानभिलाप्यसामान्यविशेषरूपमपि कृत्स्नं वस्तु तदेकान्तरूपतया मन्वानाः स्वपक्षपातित्वमात्रमेवाभिव्यञ्जन्ति, न पुनयोंक्तिकतामिति भावः॥
द्वितीयप्रकारेणाऽपि लेशतो द्रव्यानुयोगः प्रदर्यते यथा-'प' इति पारदः, 'उ' इति ३. उंगयबीयाणि, 'मा' इति माक्षिकम् , 'भ' इति भर्म-हेम, 'व' इति बहुफली, 'आ' इत्या
विभूषाप्रत्ययिकं भिक्षुः कर्म बन्नाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org