________________
अनुयोगचतुष्टयव्याख्या । चकारकवद् विपरिवर्तमानौ । 'काला' इति कालौ-अवसर्पिण्युत्सर्पिण्याख्यौ, तथाहि-प्रथमोऽरकः सुषमसुषमाख्यः, तस्य मानं चतस्रः सागरोपमकोटाकोटयः इत्यादिषिशतिकोटा कोटिसागरोपमप्रमाणं कालचक्रमिति एपोऽपि गणितानुयोगः । तथा 'पासो' पाशः प्रासो वा पाश इव पाशः-बन्धनाद्यनर्थहेतुत्वात् प्रासः-कुन्तः, स इव वा प्रजानां मारणाधनर्थहेतुत्वात् । कोऽसौ पाशः प्रासो वा इत्याह-'भा' इति भानि-ग्रहा भौमादयः ।५ कथम्भूताः सन्तः ? 'मल्ली' 'मं मसं' वा चन्द्रं, अल्लियन्ति-प्रविशन्ति मल्ली चन्द्रमण्डलमेदिन इत्यर्थः । न केवलं तथाभूता एव अनर्थप्रदाः, किन्तु "पियंगा' इत्यपि पिकः-कोकिलस्तद्वदङ्गं-मूर्तिर्येषां ते पिकाङ्गा:-कृष्णाः प्रतिभासमाना इत्यर्थः । तेऽपि हि ज्योतिः. शास्त्रे प्रजानां राज्ञां च पाशवत् प्रासवच्चानर्थकरा एव स्युः। इति गणितानुयोगपक्षः॥
अथ चरणकरणानुयोगःप्रकृष्टा उमा-कीर्तिर्येपां ते प्रोमाः, स्वचरितैः यशस्विन इत्यर्थः । भयोऽस्त्येपामिति अभ्रादित्वाद् अप्रत्यये भयाः-प्राणिनः एकेन्द्रियादिपञ्चेन्द्रियान्ताः, तेषां असवः-प्राणास्तेषां पानं-रक्षणं तत्र ऊर्जः-वलं येषां ते तथा । अरक्ताः-नीरागाः, साहचर्यात् निर्द्वपाश्च ततो विदोपणकर्मधारयः। शशी-कर्पूरः, पुष्पं-श्वेतपुष्पम् । पुष्पशब्दो हि निर्विशेपणः । श्वेतकुसुममेव वक्कि, तथा च कालिदासः
१५ "पुष्पं प्रवालोपहितं यदि स्यान्-मुक्ताफलं वा स्फुटविद्रुमस्थम्।" इति (कुमारसम्भवे स. १, श्लो. ४४) काव्यम् । ___ तद्वदन्ता येषां ते तथा । एतेन तेषां देशनाकुशलत्वं ध्वन्यते । तदैव हि दशनद्युतिप्राकट्यसम्भवः । अत एवाह-'ससिगोरा' शशिवत् निर्मलतया गवां-वाणीनां रा-दीप्तिर्येषां ते शशिगोराः । एतेन भापासमितत्वमुक्तम्। तच्च शेषसमितीनामुपलक्षणम् । २० ततो विशेषणकर्मधारयः। (सुष्टु-शोभनानि) व्रतानि-अहिंसादीनि तेषां नेमिरिव नेमिःचक्रधारा, प्रकर्षकोटिरिति यावत् । शोभनवतनेमिर्येषां ते तथा। तथा इ:-कामस्तत्र विषये काल इव कालाः-यमतुल्याः इकालाः । चतुर्थपादः पूर्ववत् । एवंविधा भावसाधवो भवन्ति । इति चरणकरणानुयोगः ॥२॥
अथ धर्मकथानुयोग:_ 'रत्ताससिपुप्फदंतससिगोरा' इति द्वितीयः पादः पूर्ववत् । कथं शशी-राजा आ रटतीत्याह -'पउमाभवासुपुजा' 'पउमा' पद्मा-लक्ष्मीस्तस्या भवाः-उत्पत्तयः अर्थात् अर्थागमाः। मम 'सुपुज्जा' सुतरां पूज्या आसन् , तेप्वेवादरात्, न पुनर्देवगुर्वादिषु । पुनः कथं रटति ? 'सुबयनेमीकाला' इत्यादि, शोभनव्रतानां-अहिंसादीनां नेमिः-उपचारात् परमकोटिस्तां कालयति-क्षिपति सुनतनेमीकाला 'अंगाभा'-शरीरराढा, मम प्रिया-वल्लभा आसीत्, न ३०
, पतदुसरा पथा-"ततोऽनुकुर्याद् विवादस्य तस्यास्वान्नौष्ठपर्यस्तरुचः सितस्य ॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org