________________
५
१०
श्रीजिनप्रभसूरिविरचिता
"खरटम हा समतुलं वज्जीखीरेण भावियं बहुसो । निग्गीवोयरपकं हवेइ कंदुज्जलं सुव्वं ॥”
आम्नायस्त्वयं रहस्यकल्पद्रुमेऽस्माभिः प्रकटितः । इति द्रव्यानुयोगः ॥ ३ ॥ अथ चरणकरणानुयोगस्य दिग् दर्श्यते
'प' इति पडिलेहण 'आ' इति आदिः सन्धौ पा । अनेन"पेडिलेहणा पमज्जण भिक्खायरिलोयभुंजणा चेव । पत्तगधुवणवियारा थंडिलआवस्सयाई च ॥”
इति ( विचारसारे गा० २५१ ) गाथोक्तप्रतिलिखना दिदशविधचक्रवालसमाचारी सूच्यते इति प्रतिलेखनादिसमाचारी ।
'सोम' इति सौम्यत्वं प्रशान्तवाहितारूपम्, तदुभयमपि अल्लियंति - सेवन्ते पासोमल्ली । एतेन विशेषणेन क्रियाशुद्धिर्भावशुद्धिश्च क्रमेणोक्ता । तथा 'पियंगा' प्रियाणि-अभीष्टानि सूत्रार्थ पाठावबोधाभ्यां अङ्गानि - आचारादीनि द्वादश येषां ते प्रियाङ्गाः । एतेन पदेन ज्ञानसम्पन्नत्वमभिहितम् । एवंविधा 'भा' इति भावसाधवो भवन्ति । इति चरणकरणानुयोगः ॥ ४ ॥
व्याख्यातमस्यां गाधाया- मनुयोगचतुष्टयम् । तुष्टये कौतुकवतां, श्रीजिनप्रभसूरिभिः ॥
अथवा सकाऽपीयं गाथा प्रत्येकं चतुर्भिरनुयोगैर्व्याख्यायते'पउमाभवासुपूज्जा' इति गणितानुयोगप्रथमपादः पूर्वं व्याकृतः । द्वितीयपादस्त्वेवं ज्ञेयम्- 'पुष्पदंत'त्ति आर्षत्वाद् विभक्तिलिपि पुष्पदन्तयोः - सूर्यचन्द्रयोः आकारप्रश्लेषात् २० ‘अससि' इति अस्वश्रियोः, न विद्यते स्वा - आत्मीया श्रीर्ययोस्तौ अस्वनियौ तयोः । यदा किल सूर्यस्य स्वा श्री रक्तवर्णत्वलक्षणा न भवति, किन्तूदये चन्द्रवत् श्वेता- निस्तेजस्का वा, तथा चेन्दोः स्वा श्रीर्न भवति, किन्तु शशी रुधिररको दृश्यते तदा 'गौरा' इति तदा गवि - पृथिव्यां राजानः 'रत्ताससि' इति रक्तं - सुभटरुधिरं आस्ये-मुखे यस्य स रक्तास्यः, तथाविधोऽसि:-खड्गो येषां ते तथा भवन्ति राजानः, परस्परं युध्यन्ते इत्यर्थः । अयमपि २५ गणितानुयोगः । तथा सह और्वेण - पातालकलशलक्षणेन वडवानलेन वर्तन्ते ये ते सौर्वाः, असाधारण विशेषणात् समुद्रास्तैश्च सागरोपमा लक्ष्यन्ते, तैः अयनं - सङ्ख्यापरिज्ञानं ययोवर्तते । तौ कौ ? 'अमी' इति प्राकृते द्विधा व्युत्पत्तिः, सिद्धावस्थया साध्यावस्थया व । तंत्र सिद्धावस्थामाश्रित्य 'अमी' इति कोऽर्थः । अमू, द्विवचनस्य प्राकृते बहुवचनम्, अम्
१-२ छाया
१५
१३०'
Jain Education International
खरट (?) महासमतुल्यं वज्जी (?) क्षीरेण भावितं बहुशः । निर्गीवोदरपकं भवति कन्दोज्वलं ......॥ प्रतिलेखना प्रमार्जनं भिक्षावरीलोचभुअनाश्चैव । पात्रकधावनविचारा स्थण्डिलावश्यकानि च ॥
For Private & Personal Use Only
www.jainelibrary.org