________________
अमुयोगचतुष्टेयव्याख्या
१२९ (गा० २५८) इत्यादि । इति धर्मकथानुयोगः ॥२॥
अथ तृतीयपादे द्रव्यानुयोगः प्रतन्यतेस च द्विधा प्रसिद्धः समयविदाम्-प्रमाणोपपत्तिभिर्वस्तुव्यवस्थापन, रूप्यस्वर्णसिद्ध्यादिप्ररूपणं च । तद् द्वितयमपि दृष्टिवादे प्रकटितम् । तद्दिङ्मानं चेदम्
'सु' इति सूतेः विपि सू-उत्पादः, व्ययो-विगमः, 'णे' इति नैयत्यं नैत्यं वा ध्रौव्यमिति ५ यावत् 'हस्वः संयोगे' (सिद्ध० १-४-८४) इति कृते सुबय 'ऐत एत्' (सिद्ध०८४-३४३) इति कृते एतेषां 'मी' इति मीलनं-युक्तं ततश्चोत्पादव्ययध्रौव्यात्मकं वस्तु सत् इति प्रतिज्ञा । हेतुमाह-'काला' कलनं कालः प्रतीयमानत्वं तस्मात् कालात् , तथैव सम्प्रतीयमानत्वात् इति । अन्यथाऽनुपपन्नत्वैकलक्षणो हि हेतुः प्रमाणम् , अतोऽन्तायैव साध्यसिद्धेर्न दृष्टान्तरूपा वहिाप्तिरुपन्यस्ता । तत्र घटे मृत्पिण्ड-स्थासक-कोश-कुशूला-१. दिपर्यायाणां विनाशो घटाक्ष(ख्य)पर्यायोत्पादो मृद्रव्यं चान्वयीति त्रयात्मकसिद्धेर्दिक् । एवमुत्फण-विफणावस्थानुयायि सर्पत्वम् , दुग्ध-दध्याद्यनुवृत्ति गोरसत्वम्, कटक-कुण्डलादिपर्यायेष्वनुगामि स्वर्णद्रव्यत्वम् , धर्मा-ऽधर्मा-ऽऽकाशादिषु द्रव्येष्वपि तत्तदवच्छेदकोपाधिसम्बन्धात् त्रयात्मकं वस्तु भावनीयम् ।
आत्मनि तु ज्ञानदर्शनादिगुणहर्षामौदासीन्यसुरनरतिर्यङ्नरकादिपर्यायापगमेऽ-१५ प्यात्मद्रव्यैक्यात् तत् सुप्रतीतमेव । नहि निराधारावुत्पादव्ययपर्यायौ व्यवस्थितेष्वेतेषु, तस्मात् अन्वयि द्रव्यमेष्टव्यम् , कूटस्थनित्यस्य निष्प्रमाणकत्वात् बन्धमोक्षाधसङ्गतेश्च ।
• "द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः।
व कदा केन किंरूपा दृष्टा मानेन केन वा ? ॥"3 इति वचनात् । अथ द्वितीयप्रकारेण द्रव्यानुयोगः प्र(क)च्यते
'सुध' त्ति शुल्वम् , अकारप्रश्लेषात् अयः-श्लेषणः टङ्कणः । 'ने' इति नेपाली-कुनटी • नेत्राञ्जनं च खापरीया । 'मी' इति मिडोहरः तस्स 'इ' इति इन्द्रियं-बीजम् । 'मी' पारद
इत्यर्थः । 'क' इति कन्दः-सूरणः । “अर्शोन्नः सूरणः कन्दः" इति (अमर० का० २, . श्लो० १५७) वचनात् । आलं-हरितालम् । 'अ' इति अशनिः-वनः-स्वरुः सन्धौ ‘सुव-२० यनेमी काला' । तथा च पूज्या:
, "जावा सावसेसं जाव य थोवो पि अस्थि बसाओ।
ताव करिज-पहियं मा ससिराया व सोहहिसि ॥ २५८॥" . यावदायः सावशेषं यावच स्तोकोऽप्यस्ति व्यवसायः (चित्तोस्साहः)।
तावत् कुर्यादात्महितं मा शशिराजेव शोचिष्यति ॥] आईतमतप्रभाकरकार्यालये (पुण्यपत्तने) मुद्रिते पुस्तके तु८, १, १५८ इति सूत्राङ्कः । पचं वियते तत्त्वार्थाधिगमसुत्रस्य श्रीसिद्धसेनगणिकृतटीकायां (पृ. ३७८)। अर्थ, १७ ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org