________________
सप्त स्मरणानि ।
"सुनिश्रितं नः परतत्रयुक्तिषु, स्फुरन्ति याः काथन सूक्तसम्पदः ।
तवैव ताः पूर्वमहार्णवोत्थिता, जगत्प्रमाणं जिनवाक्यविपुषः ॥ १ ॥ " ( वंशस्यम् ) ( प्रथमद्वात्रिंशिकायां श्लो० ३० ) एवं स तेन दम्मेन मिथ्यादृष्टीन् विप्रतारयंस्तेभ्यश्च दानादिपूजां लममानस्तया चालीकप्रसिद्ध्या ५ मनसि प्रमोदं दधानः कालमनैषीत् ॥
अन्यदा श्रीमानाचार्यसम्मूतविजयसूरिः स्वगच्छं भद्रबाहुखामिनि नियोन्य कृतानशनः समाधिना दिवममात् । तदनन्तरं श्रीभद्रबाहुरप्रतिवद्धविहारेण विहरन् मव्यान् प्राबुध्यत । एतसिंव समये स वराहमिहिरः साधुश्राद्धप्रद्वेषेण मिथ्यात्वोर्देयेन वान्तसम्यग्दर्शनोऽज्ञानतपोऽनुष्ठानेन कालं कृत्वा व्यन्तरेषूत्पन्नः । ततः पर्याप्तः सन् विभङ्गामोगाद् विज्ञातात्मीयपूर्वभव१. खरूपः पुनर्मिथ्यात्वोदयादईत्प्रवचने प्रद्वेषोत्कर्षमुद्वहन् अचिन्तयत् स सुराधमः - कथमहं पूर्ववैरनिर्यातनमेतेषां आईतानां साध्वादीनां करिष्ये १ ततोऽसौ सर्प इन छिद्रान्वेषणपरोऽपि सदनुष्ठाननिष्टतया सतताप्रमत्तत्वात् साधूनां छिद्रममव्यः सम्यक्त्वमिव न लेमे । ततो विलक्षः साधून मुक्त्वा श्रावकेष्त्रविरततया प्रमादबहुलेषु विशिष्टधर्मानुष्ठानविकलेषु च हलमवाप्य उपसर्गानं कर्तुमारेमे स दुष्टवानमन्तरः । ततः श्राद्धैरपि विशिष्टवृद्धिमिराकर्णित श्रुतसारैर्ज्ञातं यद् व्यन्तरकृत१५ मेतत् नासाभिरुपशमं नेतुं पार्यते । ततोऽत्रार्थे भद्रबाहुखाम्येव प्रतिकर्तुं अलं इति सर्वैरालोच्य तत्स्वरूपगर्भा विज्ञप्तिका गुरुभ्यः प्रेषिता । तामवधार्य श्रीभद्रयाखामिना अतिशयज्ञानज्ञातेतत्पारम्पर्येण महाप्रभावमुपसर्गहरस्तोत्रं नूतनं कृत्वा सर्वत्र प्रेषितम् । ततः सर्वोऽपि सङ्घस्तत्पाठस्मृतिप्रमावान्निरुपद्रवो धर्मपरायणो वभूवेति सप्रभावमिदं सर्वदा स्मरणीयं पठनीयं ऐहलौकिकपारलौकिकसुखामिलापिभिरिति । अत एव
I
२०
“स्तोत्रस्यास्याष्टातिरिक्तं शतं यः कुर्याआपं पञ्चगाथात्मकस्य ।
,
तस्यावश्यं मञ्जु नश्यन्ति विभा-स्तं निःशेषा वृष्वते सिद्धयथ ॥ १ ॥ " - (शालिनी)
अत्र हि प्रथमगाथायां जगद्वालभ्यकरं सौभाग्यकरं भूतादिनिग्रहकरं क्षुद्रोपद्रवद्रावणमिति याष्टकं पार्श्वययविम्यादिमत्रार्थं न्यस्ताः । द्वितीयगाथायां च प्रथमं विपधरस्फुलिङ्गमत्रं यं बृहच्चक्राभिधानं सर्वसम्मत्करम्, द्वितीयं तु चिन्तामणिचक्रं चिन्तातीतार्थसाधकं नृप-वहि- तस्कर२५ शाकिनीप्रभृतिक्षुद्रोपद्रवनिवारणं न्यस्तम् । तृतीयगाथायां तु वन्ध्याशन्दापहं मृतवत्सानामपत्यजीवनं काकवन्ध्यादोपत्रमोपि बालानां ग्रहपीडानिवारणं दुर्भगानां सौभाग्यावहं अपस्माराद्यपहारि चेति यत्राणि सूचितानि । चतुर्थगाथायां पुनः सर्वार्थसाधकं देवकुलं कल्पद्रुमयत्रन्यासत्र प्रणीतः ।
'१ 'मानार्य' इति पाठः । २ 'भगवति श्रीभद्रबाहो' इति पाठः । ३ 'प्राषद (1)' इति पाठः । ● 'दबाद्' इति सन्पाठः । ५ 'स्वरोपशमनं शाकिनीनाशनं विषमविपरिग्रहकरं' इत्यकिः पाठः । ६ एतनि ३. शासुना द्रष्टव्या श्रीपूर्णचन्द्राचार्यरचिता उपसर्गहरस्तोत्रवृतिः । ● 'करं' इति पाठः । ८ 'क्षेमं सुख" इत ९ 'सूत्रिता' इति पाठ: 1:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org