________________
उवसग्गहरस्मरणम् ।
पञ्चमगाथायां च पुनः शान्तिक पौष्टिकं च भूत-प्रेत-शाकिनी-डाकिनी-ज्वरादिनाशनं सर्वरक्षा विनिक्षिप्ता, मत्राश्चात्र दृष्ट(ष्टि)कोत्थापन-पुरक्षोभ-क्षेमकरणादिकार्यसाधकाः । अनेनैव च स्तोत्रेण निःसप्तकृत्वोऽष्टशतं वाऽभिमत्रितेन धूपबलिकमादिना कृतोपवासः पुरुषस्तत्तदनर्थसाथै व्यर्थयति ।
किश्च सर्वस्वं विद्यानां मत्राणामुपादानकारणं पञ्चपरमेष्ठिमहामत्रो नमस्कारः, तत्र च नमस्करणीयाः पञ्च परमेष्ठिनः, तेषां च नामाक्षरपद्धतिरेतत्स्तवसम्बन्धिनो गाथापञ्चकस्यादौ चिद्रूपनि- ५ रूपणीया दृश्यते । तथाहि-प्रथमगाथाया आदित 'उव' इत्यक्षरद्वयेन प्राकृतगाथाजुषा उपाध्यायाः सगृह्यन्ते, पदैकदेशे पदसमुदायोपचारात् । द्वितीयगाथादौ तु 'विस' इति वर्णद्वयेन साधवः, विपमिव विपं सर्वरसात्मकत्वोपदर्शनात् । विपभूताः साधवो हि तत्तत्पात्रापेक्षया तत्तद्रसस्पृशो भवन्ति । उक्तं च भगवता प्रस्तुतस्तोत्रकारेणैव दशवैकालिकनियुक्तौ (८३तमे पत्राङ्के) श्रमणानां विपसमानत्वम् । तृतीयगाथायास्तु धुरि 'चिट्ठ' इत्यवयवेनाचार्याः, भगवत्सु तीर्थ-१० करेपु मोक्षं गतेष्वपि यावत्तीयं पश्चादपि तिष्ठन्तीति, प्राकृतलक्षणात् चिट्ठादेशः, "कइया वि जिणवरिंदा" इति न्यायात् । अथवा सच्चिद्-द्रव्यगुणपर्यवेरनुयोगस्वरूपा तत्र तिष्ठन्तीति चित्स्थाःसूरयः । चतुर्थगाथायास्त्वादी 'तुह' इत्यक्षरद्वयेन अर्हन्तः । 'तुह(ह) दुह(ह) अर्दने' (सिद्ध० धा०)। तोहन्ति-अर्दयन्ति घातिकर्मचतुष्टयं सकलजगत्संशयराशिं वेति तुहः । विहरमाणा उत्पन्न केवलज्ञाना अर्हन्तः । नौम्युपान्त्यलक्षणे के तुह इति रूपम् । पश्चमगाथायाः पुन-१५ रादौ 'इय'त्ति वर्णयुग्मेन सिद्धाः । 'इण गती' (पा० धा० १०४५) । इता-गता अपुनरावृत्तये मोक्षमिति इताः-सिद्धाः । न चान्यार्थप्रयुक्तानामेपां पदानां परमेष्ठिमत्ररूपत्वमयुक्तमिति वाच्यम् "ऐन्द्रस्येव शरासनस्य दधती" इत्यादी बीजपदानां अन्यार्थप्रयुक्तत्वेऽपि मत्ररूपतानतिक्रमात् तत्प्रभावोपलब्धेश्च । , उल्लेखश्चायम्
"विसतिणिसवायवंजुलकणियारुप्पलसमेण समणेणं । भमरुंदुरुनहकुकुडअद्दागसमेण होयध्वं ॥" [विप-तिनिश-वात-वक्षुल-कर्णिकार-उत्पलसमेन श्रमणेन ।
भ्रमर-उन्दुरु-नट-कुर्कट-आदर्शसमेन भवितव्यम् ॥1 २ इदं तु प्रथम चरणं उपदेशमालायाः द्वादशगाथायाः, सम्पूर्णा गाथा तच्छाया तु यथा
"कइया वि, जिणवरिंदा, पत्ता अयरामरं पहं दाडं। भायरिएहि पवयणं, धारिजइ संपयं सयलं ॥" कदापि जिनवरेन्द्राः प्राप्ता अजरामरं पथं दवा।
भाचार्यैः प्रवचनं धार्यते साम्प्रतं सकलम् ॥ ३ 'माम्पुपान्त्यमीकृशः कः' इति सिद्धहैमे (५-१-५४)। 'रूपं प्रयुक्त' इति पाठा, 'रूपे ३० प्रयुक्तः' इति तु ग-पाठः । ५ भारतीमधुस्लोग्ने समग्रं पथं बाधं यथा
"ऐन्द्रस्यैव शरासनस्य दधती मध्येकलाट प्रभा
शौहीं कास्तिमनुष्णगोरिव शिरमातम्वती सर्वतः । स.स.२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org