________________
५
१०
१५
९०
श्रीलक्ष्मीकलोलगणिकृतम्
परागजावारिविशुद्धवंशः, परागरिष्टस्थितिभेददर्शी । सेवापरारि(?गा)नतचक्रमाज्जः, कृपापराऽगालिदवाक्य ! जीयाः ॥२४॥ - उपजातिः यो दीपरागाङ्गिसमात्मवोधनो, विलापरागादिविमुक्तचेताः । निःस्वापराऽगास्वतरस्वरूपः, सुरापरागाह्यगुणः सुसेव्यः ॥ २५ ॥ -,, अपूर्वरार्णा (गा ) ङ्गपरागजात - शीलं पराऽगन्धवचः प्रकाशम् । परागतिप्राप्त ! परागतिज्ञ, स्तोष्ये परागोपगतिं प्रतीतम् ॥ २६ ॥ -,, वन्दे परागर्भगतिव्यतीतं, सदापर। गाढतपःप्रवृत्तम् । क्रूरापराङ्गारकशोणपाणिं, परां गरीयःपदवीं श्रयन्तम् ॥ २७ ॥ -,, श्रीमद्वाचकचक्रवर्तिसुगुरुश्रीहर्ष कल्लोलसच्
छिष्यः पण्डित मण्डली बहुमतः श्रीलक्ष्मिकल्लोलकः । सैवेदं रचयाञ्चकार सुपरागार्थाष्टयुक्तं शतं तेनानोतु कृती जनः शिवसुखं पुण्येन लब्धोदयम् ॥ २८ ॥ - शार्दूल० इति परागशब्दाष्टोत्तरशतार्थनिबद्धं साधारणजिनस्तवनम् ।
महामहोपाध्यायचक्रवर्तिश्रीहर्षकल्लोलगणिक्रमकमलमरालायमानेन पण्डितलक्ष्मी कल्लोलगणिना रचयाश्च ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org