________________
पण्डितश्रीगुणविनयगणिगुम्फितः ॥ 'सव्वत्थ'शब्दार्थसमुच्चयः ॥
प्रणम्यैश्चाहतः सर्वान् , शर्ववद् गोविलासिनः।
सवत्थेति वरे शब्दे, क्रियतेऽर्थसमुच्चयः॥ सर्वाणि अस्त्राणि हस्तेषु येषां ते सर्वास्त्राः-सुभटाः 'दीर्घहस्वौ मिथो वृत्तौ' (सिद्ध० ५ अ० ८, पा० १, सू० ४) इति इस्वः ॥१॥
सर्वे च ते अर्थाश्च सर्वार्थाः ॥२॥ सार्वो-भगवान् तद्वत् तिष्ठन्ति इति सार्वस्थाः-गणधराः। 'इस्वः संयोगे' (सिद्ध ८-१-८४) इति इस्वः ॥ ३॥
सा-श्रीः तद्धेतुत्वात् सा अर्वणि-हये तिष्ठतीति '{अवस्था सा चासौ अवस्था चेति }१० सार्वस्था-अच्छुप्ता देवी ॥४॥
सद् वस्त्रं येषां ते सद्भस्त्राः-दौषिकाः ॥५॥ व्यथां अर्हन्तीति व्यथ्याः-परपीड्याः-कातराः तैः सह वर्तन्त इति सव्यथ्याः-निर्बलबला भूपालाः ॥ ६॥ सर्वान् त्रायन्त इति सर्वत्राः-गुरवः ॥ ७ ॥
आसन् 'आस उपवेशने' (पा० धा० १०२१) भावक्किबन्तः, सव्ये-वामभागे अर्थात् शकटस्य आस् सव्यास् , ततः त्रस्यन्तीति सव्यास्त्राः-निस्थामानो वृषभाः 'अन्यतोऽपि घ' (कातने सू० ६३६) इति डप्रत्ययः॥८॥
सह व्यथैः-अपार्थकैः प्रयोजनैः निर्वर्तन्त इति सव्याः ॥९॥ विशिष्टया अर्थ इति संज्ञया सह वर्तन्त इति सव्याः -योगाः, नैयायिकमते हि द्रव्या-२० दीनां त्रयाणां अर्थ इति संज्ञा ॥ १० ॥
सद्भिः व्यस्ताः-खण्डिताः सव्यस्ताः-खलाः ॥११॥ सार्वत्राः सार्वमित्यर्थः वन्दे इति क्रिया देवमनुष्य० इत्यत्र 'बहुलम्' (सिद्ध०५-१-२) इति वचनात् अन्यत्रापि द्वितीयार्थे सप्तम्यर्थे च त्राप्रत्ययः ॥ १२ ॥ शर्वो-महेशः तस्य अस्त्राणि, प्राकृतत्वात् पुंस्त्वम् ॥ १३ ॥
गायकवाड पौर्वात्यमन्दिर(Oriental Institute)सत्कायाः प्रवेराधारेण पाठान्तराणि सूचितानि पण्डितवर्यः श्रीयुतलालचन्द्रैः । तेषु यानि विशेषेणोपयुक्तानि तेषां समावेशो मूलमागे निर्दिो मया {}एतचिन, भवशिष्टानि प्रायः सनिवेक्षितानि टिप्पणीषु..
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org