________________
श्रीसमयसुन्दरगणिकृता दो-देवस्तद्वत् दो-दीप्तिर्यस्य सोऽपि ददः, तत्सं० हे दद! हे अ!-प्राणिन् इत्यादि ६० अर्थाः देवदीप्तिवाचिना ददपदेन के० कार्याः । सर्वे० ॥ ३१२० ॥
देन-दीप्त्या दो-दानं सोऽपि ददः, तत्सं० इत्यादि ६० अर्थाः दीप्तिदानवाचिना ददपदेन के० नञ्पू० कार्याः । सर्वे० ॥ ३१८० ॥
देन-दीप्या दः-पूजनं यस्य सोऽपि ददः । यो हि देवादिपूजां कुर्वन् दीप्तिमान् ५ भवति सोऽपि ददः इत्यादि ६० अर्थाः दीप्तिपूजनवाचिना ददपदेन के० नञ्पू० कार्याः । सर्व० ॥ ३२४० ॥
देन-दीच्या दः-क्षीणः सोऽपि ददः, तत्सं० इत्यादि ६० अर्थाः दीप्तिपूजनवाचिना ददपदेन के० नञ्पू० कार्याः । सर्वे० ॥ ३३०० ॥
देन-दीप्त्या उपलक्षितो दो-दानशौण्डो यः सोऽपि ददः, तत्सं० इत्यादि ६० अर्थाः १० दीप्तिदानशौण्डवाचिना ददपदेन के० नपूर्वेण च कार्याः । सर्वे० ॥ ३३६० ॥
देन-दीया दो-देवो यः सोऽपि ददः । यो हि दीप्त्या कृत्वा देव इव दृश्यते तत्सं० इत्यादि ६० अर्थाः दीप्तिदेववाचिना ददपदेन के० नञ्पू० कार्याः । सर्वे० ॥ ३४२० ॥
अत्र पूर्वोक्तेषु सर्वेषु अर्थेषु तृतीया-चतुर्थी-प्रथमा-पञ्चमीविभक्तिबहुवचनेषु अस्मच्छ. १५ ब्दस्य नसादेशो विज्ञेयः । यदुक्तं श्रीकालापकमहाव्याकरणे-“युष्मदस्मदोः पदं पदात् पष्ठीचतुर्थीद्वितीयासु वसूनसौ युष्मदस्मदोः पदं पदात् परं षष्ठीचतुर्थीद्वितीयासु बहुत्वे निष्पन्नं यथासङ्ख्यं वसूनसावित्येतावादेशौ वा प्रामोति । पुत्रो युष्माकं पुत्रोऽस्माकं, पुत्रो वः पुत्रो नः । पुत्रो युष्मभ्यं पुत्रोऽस्मभ्यं, पुत्रो वः पुत्रो नः । पुत्रो युष्मान् पुत्रोऽस्मान् , पुत्रो वः पुत्रो नः । युष्मदस्मदोरिति किम् ? पुत्रस्तेषां स्वामी । पदादिति किम् ? युष्माकं २० अस्माकम् । तथाऽत्र सूत्रे षष्ठी-चतुर्थी-द्वितीयास्विति व्यतिक्रमनिर्देशात् कचित् पञ्चमीतृतीया-प्रथमास्वपि वसूनसादयो भवन्ति । तथा च विष्णुवार्तिके
___ "प्रथमायां तृतीयायां, पञ्चम्यां चापि साधितम् ।
प्रामोति युष्मदादीनां, वसूनसादीन पदं कचित् ॥ १॥" यथा-“एकं दृष्ट्वा धनुःपाणिं, मानुषं समुपस्थितम् ।
राजसं वलमुत्सृज्य, किं वो भीता इव स्थिताः ? ॥१॥" इदं रावणवाक्यम् । अत्र वो यूयमित्यर्थः।
"श्रुतं वश्चित्रगुप्तस्य, भाषितं मनसः प्रियम् ।" , 'करणेषु' इति ग-ध-पाठः। २ 'राक्षस' इति ग-न-पाठः ।
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org