________________
अर्थरनावली
[अर्थाः १-४६] अत्र वो युष्माभिरित्यर्थः । एवमग्रेऽपि
"गेये केन विनीतौ वां, कस्य चेयं कवेः कृतिः।
इति राज्ञा स्वयं पृष्टी, तौ वाल्मीकमशंसतुः॥" अत्र वां युवामित्यर्थः । अत्रोक्ते कर्मणि प्रथमा ।
"देशे विचरतस्तस्य, लक्षणानि निबोध मे।" इति । अत्र मे इति मत्सकाशादित्यर्थः । इति पञ्चमी"। अत्र यद्यपि उदाहरणे युष्मच्छब्दस्य वसादेश एव तथापि तद्वत् अस्मच्छब्दस्यापि नसादेशो विज्ञेयः । तथा अनेनैव सूत्रबलेनास्मच्छब्दस्यापि तृतीयैकवचने ते इत्यादेशः समर्थनीयः । एवं सर्वत्र यथासम्भवं
समर्थना विधेया । सर्वे० ॥ ३४२० ॥ १. एवं यक्षवाचकस्य सूर्यवाचकस्य च राजन्शब्दस्यार्थाः कार्याः। तत एते ४२९५ • अर्थाः पञ्चवारं गुणिताः जाताः २१४७५ ॥ अथ पुनरपि प्रकारान्तरेण अर्थानाह
राज-आनः अ ! दद! ते सौख्यम् ॥१-६॥ हे दद!-हे दानदायक! हे अ!-प्राणिन् ! राज्ञः आनो-मुखश्वासो राजानः-राज१५ मुखश्वासः ते-तुभ्यं सौख्यं-सुखं ददातु । अर्थयोजना स्वयं कार्या ॥१॥ हे अ! -हे
प्राणिन् ! हे दद!-हे दानदायक! राजानो-राजमुखश्वासः ते-तव सौख्यं दसे ॥२॥ हे अ!-हे प्राणिन् ! हे दद!-हे दानदायक! ते-तव राजानो-भवन्नृपमुखश्वासः सौख्यं दत्ताम् , ममेति शेषः । राज्ञा समं मम संयोगो भवत्विति शेषः । इदं नृपपार्श्ववर्तिसेवक
जनं प्रति कामातुरायाः कामिन्या वचनम् ॥ ३॥ राज्ञः आनः-प्राणः बलमिति यावत् २. राजानो-राजप्राणः हे अ!-हे प्राणिन् ! हे दद!-हे दानदायक ! ते-तुभ्यं सौख्यं ददातु । यावद् राजा जीवति तावत् त्वं सुखी भवेत्यर्थः । इदं दानदायकं राजोपंजीविनं सेवकविशेष प्रति निजबन्धुजनवचनम् इत्यादि ३ अर्थाः राजमुखश्वासवाचिराजनशब्दवदत्रापि राजप्राणवाचिराजानःशब्दस्य ददपदेन समं कार्याः । सर्वे० ॥ ६ ॥
राज-आ नः ! दद! ते सौख्यम् ॥ १-४६ ॥ २५. राजभिः-नृपैः कृत्वा आ-शोभा येषां ते राजा:-राजसेव्याः केचन महापुरुषाः
हे नः!-हे नर! हे दद!-हे दानदायक! ते-तुभ्यं ते-तव वा सौख्यं ददतामित्याशीर्वचनम् ॥ १-२॥ ते राजाः नः-अस्माकं १ अस्मभ्यं २ वा सौख्यं ददतामित्याशीर्वचः । जाताः ४ ॥ एवं नपूर्वेण ददपदेनापि ४ अर्थाः कार्याः । जाताः ८॥ पूर्व ६ षट् मीलने जाताः १४ ॥ "ऋशब्दः पावके सूर्य, धर्मे दाने धने पुमान्" इति (विश्वशम्भु०
'राजाऽऽभम्याः' इति ग-ध-पाठः। २३५७२' इति ग-पाठः। सेविनं' इति ग-ब-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org