SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ श्रीसमयसुन्दरगणिकृता ६१ श्लो० ११) उक्तत्वात् अरं-धर्म १ दानं २ धनं ३ सूर्य ४ आ-सामस्त्येन अजन्तिगच्छन्ति 'गत्यर्थानां ज्ञानार्थत्वात्' प्राप्नुवन्तीति रस्वे कृते राजाः-धर्मिष्ठाः १ गुणिनः २ पुण्याच्याः ३ सूर्यसेवकाश्च ४ हे नः! हे नर ! हे दद!-हे दानदायक ! ते-तुभ्यं १ तव २ या सौख्यं ददताम् । ततः ॥८॥एवं ते राजाः धर्मिष्ठादयः चत्वारः नः-अस्मभ्यं १ अस्माकं २ वा सौख्यं ददताम् । एतेऽपि ८ पूर्व ८ मीलने १६ ॥ एवं नपूर्वेणापि ५ ददपदेन समं १६ अर्थाः कार्याः । जाताः ३२ ॥ पूर्व १४ मीलने जाताः ४६ ॥ राजा ओ नः! दद! ते सौख्यम् ॥ आ-धर्मः । किंविशिष्टः ? राजा-रञ्जको दीप्यमानो वा । व्युत्पत्त्यादि पूर्ववत् । हे नः!-हे नर ! हे दद ! ते-तुभ्यं १ तव २ वा सौख्यं ददातु २ । एवं नञ्पूर्वेणापि ददपदेन २ अर्थो कायौँ । जाताः ४। एवं अंः-अर्हन् । किं० ? 'राजा' स्वामी इत्यादि। प्रकारेणापि ४ अर्थाः कार्याः । जाताः ८॥ एवं राजाः-सिद्धाः व्युत्पत्त्यादि पूर्ववत् इत्यादि प्रकारेणापि ४ अर्थाः कार्याः। जाताः १२॥ एवं आ-आचार्यः। किं ? 'राजा' रखकः इत्यादि प्रकारेणापि ४ अर्थाः कार्याः। जाताः १६ ॥ पूर्व४६मीलने जाताः ६२ अर्थाः॥आ (अः?)-सूर्यः । किं० ? 'राजा' स्वामी दीप्यमानो वा । हे नः!-हे नर ! हे दद!- दानदायक! ते-तुभ्यं १ तव २ वा सौख्यं ददातु २ । एवं अददपदेनापि समं २,१५ एवं ४ । सर्वे० ॥ ६६ ॥ एवं अः-कृष्णः । किं० ? 'राजा' इत्यादिप्रकारेण पूर्ववत् ४ अर्थाः कार्याः । एवं अः-ईश्वरः । किं० ? 'राजा' इत्यादिप्रकारेण ४ । जाताः ७० ॥ एते ७० अर्थाः दानदायकददपदेन केवलेन नञ्समासपूर्वेण च जाताः। एवं दं-पूजनं पूजां ददातीति ददः ॥१॥ दो-दानशौण्डस्तद्वत् ददातीति ददः ॥२॥ देभ्यो देवेभ्यो ददातीति ददः॥ ३ ॥ देन-दीप्त्या देदातीति ददः॥ ४॥ दान् २० -क्षीणान् दयते-दयापरत्वात् पालयतीति ददः ॥५॥ दान-दानशौण्डान् दयतेपालयतीति ददः ॥ ६॥ दं-कलत्रं दयते-पालयतीति ददः ॥ ७॥ दं-दानं द्यतिखण्डयतीति ददः ॥ ८॥ दं-पूजनं द्यति-खण्डयतीति ददः ॥९॥ दान्-क्षीणान्-द्यति खण्डयतीति ददः ॥१०॥ दान-दानशौण्डान् द्यति-खण्डयतीति ददः ॥ ११॥ दंदीप्तिं द्यति-खण्डयतीति ददः ।। १२ ॥ दो-देवस्तद्वत् द्यति-अरीन् खण्डयतीति ददः १५ ॥ १३ ॥ दं-कलत्रं द्यति-खण्डयतीति ददः ॥ १४ ॥ दस्य-दानस्य दो-दानं यस्य सोऽपि ददः ॥ १५ ॥ दो-दानं तेन दः-पूजनं यस्य सोऽपि ददः ॥ १६ ॥ दे-दाने द:-क्षीणो यः सोऽपि ददः ॥ १७॥ दे-दाने दो-दानशौण्डो यः सोऽपि (ददः) ॥ १८ ॥ दस्य-दानस्य दः-पालकः सोऽपि ददः ॥ १९ ॥ दे-दाने द इव-देव इव यः सोऽपि ददः ॥ २० ॥ दो-दानं तेन तत्र वा दो-दीप्तिर्यस्य सोऽपि ददः ॥ २१ ॥३० दः-पूजनं तस्य दो-दानं यस्य सोऽपि ददः॥ २२ ॥ दे-पूजने दः-क्षीणो यः सोऽपि 'मः' इत्यपि सम्भवति । २ '' इति क-पाठः। ३-५ 'ददतीति' इति क-ख-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.002921
Book TitleAnekarth Ratna Manjushayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy