________________
६२
अर्थरनावली ददः ॥ २३ ॥ देन-कलत्रेण सह द:-क्षीणः सोऽपि ददः ॥ २४ ॥ देन-पूजनेन उपलक्षितो दो-दानशौण्डो यः सोऽपि ददः ॥ २५॥ दस्य-पूजनस्य दः-पालकः सोऽपि ददा ॥ २६ ॥ देन-पूजनेन उपलक्षितो दो-देवो यस्य सोऽपि ददः ॥ २७ ॥ देन-पूजनेन दो-दीप्तिर्यस्य सोऽपि ददः ॥ २८ ॥ देभ्यः-क्षीणेभ्यो दो-दानं यस्य सोऽपि ददः ५॥ २९ ॥ दं-कलत्रं तस्मै दो-दानं यस्य सोऽपि ददः॥ ३० ॥ दं-क्षीणं दं-कलत्रं यस्य सोऽपि ददः ॥ ३१॥ दानां-क्षीणानां दः-पूजनं यस्य सोऽपि ददः ॥ ३२॥ दानाक्षीणानां दः-पालको यः सोऽपि ददः॥ ३३ ॥ दः-क्षीणः दो-दीप्तिर्यस्य सोऽपि ददः ॥ ३४ ॥ दवत्-दानशौण्डवत् दो-दानं यस्य सोऽपि ददः ॥ ३५॥ दस्य-दानशौण्डस्य
दः-पूजनं यस्य सोऽपि ददः॥ ३६॥ दो-दानशौण्डः स चासौ दः-क्षीणः सोऽपि ददः १०॥ ३७॥ दो-दानशौण्डस्तस्य दः-पालकः सोऽपि ददः ॥ ३८ ॥ दवत्-दानशौण्डवत्
दो-दीप्तिर्यस्य सोऽपि ददः ॥ ३९ ॥ दः-पालकः तस्मै दो-दानं यस्य सोऽपि ददः ॥ ४० ॥दस्य-पालकस्य दः-पूजनं यस्य सोऽपि ददः॥४१॥ दः-पालकः स चासौ द:-क्षीणश्च सोऽपि ददः ॥ ४२ ॥ दैः-पालकः स चासौ दः-क्षीणश्च सोऽपि ददः
॥ ४३ ॥ दः-पालकः स चासौ दो-दानशौण्डश्च सोऽपि ददः॥४४॥ दः-पालको दो१५ देवो यस्य सोऽपि ददः ॥ ४५ ॥ दं-पालकं दं-कलत्रं यस्य सोऽपि ददः ॥ ४६ ॥ दःपालकस्तद्वद् दो-दीप्तिर्यस्य सोऽपि ददः॥४७॥ दाय-देवाय दो-दानं यस्य सोऽपि ददः ॥४८॥ दानां-देवानां दः-पूजनं यस्य सोऽपि ददः ॥ ४९ ॥ दवत्-देववत् अर्थात् वैश्रमणदेववद् दो-दानशौण्डो यस्य सोऽपि ददः ॥ ५० ॥ दानां-देवानां दः-पालको
यः सोऽपि ददः ॥५१॥ दो-देवस्तद्वत् दो-दीप्तिर्यस्य सोऽपि ददः ॥५२॥ देन२. दीप्त्या दो-दानं यस्य सोऽपि ददः ॥ ५३ ॥ देन-दीप्त्या दः-पूजनं यस्य सोऽपि ददः
॥ ५४ ॥ देन-दीप्त्या दः-क्षीणः सोऽपि ददः ॥ ५५ ॥ देन-दीप्त्या उपलक्षितो दोदानशौण्डो यस्य सोऽपि ददः ॥ ५६ ॥ देन-दीप्या दो-देवो यः सोऽपि ददः ॥ ५७ ॥ अनेनापि भिन्नार्थवाचकेन सप्तपश्चाशत्प्रमितेन ददपदेन केवलेन नङ्समासपूर्वकेण च
प्रत्येकं पृथक् पृथक् सप्ततिः सप्ततिः ७० अर्थाः कार्याः । ततः सप्तपश्चाशत् ५७ सप्तत्या २५ गुणिता जाताः ३९९० ॥ ततः दानार्थवाचकददपदनिष्पन्नसप्तत्यर्थ७०मीलने जाताः ४०६० ॥ एते ४०६० अर्थाः पूर्वोक्त २१४७५ अर्थमीलने जाताः २५५३५ अर्थाः ।।
सु-सुष्ठु च तत् खं च सुखं-प्रधानवितर्कः तस्य सुखस्य समाहारः सौख्यम् ॥१॥ अत्र खशब्दो वितकें। यदुक्तं श्रीविश्वशम्भुना एकाक्षर(नाम)मालायां (श्लो०२४-२५)
“(वाच्यलिङ्गः) खशब्दोऽकें, वितर्के व्योम्नि वेदने । प्रश्ननिन्दानृपक्षेप-सुखशून्येन्द्रिये दिवि ॥१॥
अवसानेऽपवर्गेऽपि परब्रह्मण्यपीरितः ॥" .१ मयोपरमधासु सर्वासु प्रतिषु ४२तमस्थार्थस्य पुनरावृत्तिश्यते । एवं सति तमोऽर्थः कयं भिषोगण्येत ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org