________________
श्रीसमयसुन्दरगणिकृता इत्यादि । एवमग्रेऽपि यत्र यत्र स्थाने यदर्थवाचकः खशब्दो विलोक्यते तत्र तत्र एतदुक्तं स्मरणीयम् । सु-सुष्टु च तत् ख-वित् सुखं-प्रधानसंवित् तस्य समाहारोऽपि सौख्यम् ॥ २ ॥ सु-सुष्टु च तत् खं-प्रश्नः सुखं-प्रधानप्रश्न:-मुक्तिः कथं प्राप्यते? संसारात् कथं छुट्यते ? धर्मः केन विधिना आराध्यते ? इत्यादिरूपः तस्य समाहारोऽपि सौख्यम् ॥ ३ ॥ सु-सुष्ठु च तत् खं च-निन्दा सुखं-प्रधाननिन्दा-अयं संसारः असारः, एते ५ कषायाः नरकहेतवः, तस्माद् दूरे त्याज्याः इत्यादि तिरस्काररूपेत्यर्थः, तस्य समाहारोऽपि सौख्यम् ॥ ४ ॥ अथवा सु-पूजनं तस्य खं-निन्दा सुखं तस्य समाहारोऽपि सौख्यम् ॥४॥ सु-सुप्ठु च तत् खं च सुख-विशिष्टसुखं तस्य समाहारोऽपि सौख्यम् ॥५॥ सु-सुष्ठु च तत् खं च सुख-विशिष्टस्वर्गः तस्य समाहारोऽपि सौख्यम् ॥ ६ ॥ सु-सुप्तु च सत् खं-परब्रह्मसुखं तस्य समाहारोऽपि सौख्यम् ॥७॥ सु-सुष्टु च सा ख्या-ज्ञानं . सुख्या तस्याः समाहारोऽपि सौख्यम् ॥ ८॥ सु-सुष्ठ च खं-मोक्षसुखं तस्य भावोऽपि सौख्यम् ॥ ९॥ सुखस्य समाहारो भावो वाऽपि सौख्यम् ॥ १० ॥ अत्र यथापूर्व सुखवाचिसौख्यशब्देन समं २५५३५ अर्थाः जाताः । तथा च वितर्कसमाहारादिपृथक्पृथगर्थवाचिसौख्यशब्दनवकेनापि समं प्रत्येकं पृथक् पृथक् २५५३५ अर्थाः कार्याः । ततः २५५३५ अर्था दशवारं गुणिता जाताः २५५३५० अर्थाः॥ यथा-हे अ!-प्राणिन् ! १५ हे नोदद ! ते-तुभ्यं राजा-नृपतिः सौख्यं प्रधानवितर्कसमाहारं ददातु इत्यादिदिग्मात्रमर्थकरणे अर्थयोजनाऽपि सर्वत्र स्वयमेव विधेया । मया विस्तारभीत्या न सर्वत्र लिख्यते। ततः यथा एते २५५३५० अर्थाः केवलेन सौख्यशब्देन समं जातास्तथा एतावन्त एवार्थाः नसमासपूर्वेणापि सौख्यशब्देन समं कार्याः । यथा हे अ! हे प्राणिन् ! हे नोदद ! ते-तुभ्यं राजा-नृपतिः असौख्यं-दुःखं ददातु इत्यादिपूर्वोक्तप्रकारेण कार्याः । २० ततो द्विगुणिता जाताः ५१०७०० अर्थाः । एते एव अर्थाः काकुवचनेन समं द्विगुणिताः सन्तो जाताः सर्वे ॥ १०२१४०० ॥ यथा हे अ!-हे प्राणिन् ! हे नोदद ! ते-तुभ्यं राजा-नृपतिः सौख्यं ददातु ? अपि तु नेत्यर्थः । इत्यादि दिगमात्रप्रदर्शनप्रकारेण अन्येऽपि अर्थाः कार्याः । अर्थयोजना तु यत्र न कृता भवति तत्र सर्वत्र स्वयं कार्या तदर्थभिः सद्भिः। मया तु गन्थविस्तरभीत्या न लिखिता ॥ १०२१४०० ॥ अथ पुनः प्रकारान्तरेण शृङ्खलानामप्रश्नोत्तरभेदेन अर्थदर्शनम्
"का सन्तापकरो भवेद् विरहिणां ? संहतिरष्ठीवतः
का स्यात् ? प्रेरणदानदातृजनयोः सम्बोधनं किं पृथक् ? । रूपं दन्त इति ध्वनेर्वदत भो कीदृक् चतुर्थ्यादिमं ?
क स्यान्यायिनरेश्वरस्य विजयो ? विष्णुप्रिया पृच्छति ॥ १॥" ३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org