________________
६४
अर्थरत्नावली "परब्रह्मार्थिभक्तानां, कीहक् किं ददते प्रभुः ।। राजन्वत्यः प्रजाः प्राहुः, किं पदं वद कोविद ! ॥२॥"
राजा नो ददते सौख्यम् ॥ (राजा जानो ! नोद ! ददः ! दते ते असौ सौखी अम्) व्याख्या-विरहिणां जनानां सन्तापकरः को भवेत् ? । उत्तरम्-'राजा' चन्द्रः। अष्ठीवतो-नलकीलस्य संहूतिः का-सम्बोधनं किम् ? । उत्तरम्-हे 'जानो' । तथा प्रेरणं च दानदातृजनश्च प्रेरणदानदातृजनौ तयोः पृथक् पृथक् सम्बोधनं किम् ? उत्तरम्हे 'नोद' हे 'दद !' दं-दानं ददातीति ददस्तत्सं० । दन्त इति ध्वनेः-शब्दस्य चतुर्योदिम-चतुर्थीविभक्तिप्रथमवचनसत्कं रूपं भो पण्डिताः! यूयं वदत-कीहक् स्यात् ? उत्त१० रम् 'दते'। विष्णुप्रिया-लक्ष्मीः पृच्छति-न्यायिनरेश्वरस्य विजयः कस्यात् ? उत्तरम् । 'ते असौ' खड़े। प्रभुः-स्वामी कीदृक् सन् परब्रह्मार्थिभकानां किं ददते ? उत्तरम्'सौखी अं' सुखानां समाहारः सौखं सौखमस्यास्तीति सौखी सन् अं-परब्रह्म ददते । हे कोविद ! त्वं वद राजन्वत्यः प्रजाः किं पदं प्राहुः-प्रवदन्ति ? तदा उत्तरम् । राजेति,
राजा-नृपो न:-अस्माकं सौख्यं ददते न्यायित्वात् । राजन्वत्य इति शोभनो राजा यासु १५ ताः राजन्वत्यः, मतौ निपातनात् रूपसिद्धिः । यदाहुः हेमसूरिपादाः-'राजन्वान् सुराज्ञि'
(सिद्ध० अ० २, पा० १, सू० ९८) सुराजकेऽर्थे राजन्वान् मतौ निपात्यते । राजन्वान् देशः । राजन्वत्यः प्रजाः इति । इति अर्थद्वयं सर्वमीलने। अथ पदोत्तरनामप्रश्नोत्तरभेदेन अर्थदर्शनम्
कृष्णं का व्रजति प्रमोदवशतः ? का सर्वभक्षा मता?
ध्वस्तं किं हरिणा ? कलत्रवधकस्याहूतिरावेद्यताम् । कृष्णः पृच्छति-का च कस्य दयिता ? क प्रेम धत्ते शिवा ? कीहक् ना भजते च कं सुसुखिनो जल्पन्ति किं प्राणिनः॥१॥
"राजा नो ददतेऽसौख्यम् ॥” ।
(रा अजा अनः दद ! ते अ! सा औ खी अम् ) २५ प्रमोदवशात् का स्त्री कृष्णं प्रति याति ? उत्तरम् 'रा' । “रा रमा रमणी बाला"
इति (विश्वशम्भु० श्लो० १०१) वचनात् रमा, लक्ष्मीरित्यर्थः । सर्वभक्षा का मता? उत्तरम् 'अजा' गलस्तनी । हरिणा-नारायणेन किं ध्वस्तम् ? उ० 'अनः' शकटम्, शकटनामा दैत्य इत्यर्थः। कलत्रवधकस्य-स्त्रीखण्डकस्य सम्बोधनं कथ्यताम् । १० हे 'दद' ! "दं कलत्रं" इति (सुधा० श्लो० २५) वचनात् दं-कलत्रं धति-खण्डयतीति १० ददस्तस्सं० हे दद।। कृष्णः पृच्छति-का कस्य दयिता । ७० हे अ!-हे कृष्ण!
प्रम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org